योगी योगेन सृष्टं स समयित्वा च वारिणा। ब्रह्मास्त्रेण ततो राजा दैत्यंक्रूरपराक्रमम्। ददाह भरतश्रेष्ठ सर्वलोकभवाय वै
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम्। सुरशत्रुममित्रघ्नस्त्रैलोक्येश इवापरः
धुन्धोर्वधात्तदा राजा कुवलाश्वो महामनाः। धुन्धुमार इतिख्यातो नाम्ना समभवत्ततः
प्रीतैश्च त्रेदशैः सर्वैर्महर्षिमसितैस्तदा। परं वृणीष्वत्युक्तः स प्राञ्जलिः प्रणतस्तदा। अतीव मुदितो राजन्निदंवचनमब्रवीत्
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः। सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च। धर्मे रतिश् सततं स्वर्गे वासस्तथाऽक्षयः
तथाऽस्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः। ऋषिभिश्च सगन्धर्वैरुदङ्केन च धीमता
संभाष्य चैनं विविधैराशीर्वादैस्ततो नृषम्। देवा महर्षयश्चापि स्वानि स्तानानि भेजिरे
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाऽभवन्। दृढाश्वः कपिलाश्वश्च भद्राश्वश्चैव भारत
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम्। [वंशस्य सुमहाभाग राज्ञाममिततेजसाम्]
एवंसं निहतस्तेन कुवलाश्वेन सत्तम। धुन्धुर्नाम महादैत्यो मधुकैटभयोः सुतः
कुवलाश्वश्च नृपतिर्धुन्धुमार इति स्मृतः। नाम्ना च गुणयुक्तेन तदाप्रभृति सोऽभवत्
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि। धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा
इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम्। शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः
आयुष्मान्भूतिमांश्चैव श्रुत्वा भवति पर्वसु। न च व्याधिभंयकिंचित्प्राप्नोति विगतज्वरः
ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम्। प्रपच्छ भरतश्रेष्ठ धर्मप्रश्नं स दुर्वचम्
श्रोतुमिच्छामि भगवन्स्त्रीणां माहातम्यमुत्तमम्। कथ्यमानं त्वया विप्र सूक्ष्मं धर्म्यं च तत्त्वतः
प्रत्यक्षमिह विप्रर्षे देवा दृश्यन्ति सत्तम। सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च
पिता माता च भगवान्गाव एव च सत्तम। यच्चान्यदेव विहितं तच्चापि भृगुनन्दन
मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः। पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे। पतिव्रतानां महात्म्यं वक्तुमर्हसि नः प्रभो
निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ। पतिं दैवतवच्चापि चिन्तयन्त्य स्थिता हि या
भगवन्दुष्करं त्वेतत्प्रतिभाति मम प्रभो। मातापित्रोश्च शुश्रूषा स्त्रीणां भर्तरि च द्विज
स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम्। साध्वाचाराः स्त्रियो ब्र्हमन्कुर्वन्तीह सदादृताः
दुष्करं खलु कुर्वन्ति पितरो मातरश्च वै। एकपत्न्यश्च या नार्यो याश् सत्यं वदन्त्युत
कुक्षिणा दशमासांश्च गर्भं संधारयन्ति याः। नार्यः कालेन संबूय किमद्भुततरं ततः
संशयं परमं प्राप्य वेदनामतुलामपि। प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो
पुष्णन्ति चापि महता स्नेहेन द्विजपुङ्गव। `चिन्तयन्ति ततश्चापि किंशीलोऽयंभविष्यति
याश्च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः। स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम्
क्षत्रधर्मसमाचारतत्त्वं व्याख्याहि मे द्विज। धर्मः सुदुर्लभो विप्र नृशंसेन महात्मना
एतदिच्छामि भगवन्प्रश्नं प्रश्नविदांवर। श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत
हन्त तेऽहं समाख्यास्ये प्रश्नमेतं सुदुर्वचम्। तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे