एतस्मिन्नेव काले तु राजा सबलवाहनः। कुवलाश्वो नरपतिरन्वितो बलशालिनाम्
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः। प्रायादुदङ्कसहितो धुन्धोस्तस्य वधाय वै
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः। उदङ्कस् नियोगेन लोकानां हितकाम्यया
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्। एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति
दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन्। देवदुन्दुभयश्चापि नेदुः स्वयमनीरिताः
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः। विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः। `प्रदक्षिणाश्चाप्यभवन्वन्यास्तं समृगद्विजाः
अन्तरिक्षे विमानानि देवतानां युधिष्ठिर। तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः
कुवलाश्वस्य धुन्योश्च युद्धकौतूहलान्विताः। देवगन्धर्वसहिताः समवैक्षन्महर्षयः
नारायणेन कौरव्य तेजसाऽऽप्यायितस्तदा। स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम्
अर्णवं स्वानयामास कुवलाश्वो महीपतिः। `हितार्तं सर्वलोकानामुदङ्कस्य वशे स्थितः
कुवलाश्वस् पुत्रैश्च तस्मिन्वै वालुकार्णवे। सप्तभिर्दिवसैः स्वात्वा दृष्टो धुन्धुर्महाबलः
आसीद्धोरं वपुस्तस्य वालुकान्तर्हितं महत्। दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ
ततो धुन्धुर्महाराज दिशमावृत्य पश्चिमाम्। सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः। अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि
प्टसैः परिधैः प्रासैः खङ्गैश् विमलैः शितैः। सवध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः
क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च। आस्याद्वमन्पावकं स संवर्तकसमं तदा
तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा। मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः। सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत्
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम। तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम्। आससाद महातेजाः कुवलाश्वो महीपतिः
तस्य वारिमहाराज सुस्राव बहु देहतः। तत्तदापीयतेतेजो राज्ञा वारिमयं नृप
योगी योगेन सृष्टं स समयित्वा च वारिणा। ब्रह्मास्त्रेण ततो राजा दैत्यंक्रूरपराक्रमम्। ददाह भरतश्रेष्ठ सर्वलोकभवाय वै
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम्। सुरशत्रुममित्रघ्नस्त्रैलोक्येश इवापरः
धुन्धोर्वधात्तदा राजा कुवलाश्वो महामनाः। धुन्धुमार इतिख्यातो नाम्ना समभवत्ततः
प्रीतैश्च त्रेदशैः सर्वैर्महर्षिमसितैस्तदा। परं वृणीष्वत्युक्तः स प्राञ्जलिः प्रणतस्तदा। अतीव मुदितो राजन्निदंवचनमब्रवीत्
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः। सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च। धर्मे रतिश् सततं स्वर्गे वासस्तथाऽक्षयः
तथाऽस्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः। ऋषिभिश्च सगन्धर्वैरुदङ्केन च धीमता
संभाष्य चैनं विविधैराशीर्वादैस्ततो नृषम्। देवा महर्षयश्चापि स्वानि स्तानानि भेजिरे
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाऽभवन्। दृढाश्वः कपिलाश्वश्च भद्राश्वश्चैव भारत
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम्। [वंशस्य सुमहाभाग राज्ञाममिततेजसाम्]
एवंसं निहतस्तेन कुवलाश्वेन सत्तम। धुन्धुर्नाम महादैत्यो मधुकैटभयोः सुतः