क्रूरस्य तस्य स्वपतो वालुकान्तर्हितस्य च। संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते
यदा तदा भूश्चलति सशैलवनकानना। तस्य निःश्वासवातेन रज उद्धूयते महत्
आदित्यरथमाश्रित्य सप्ताहं भूमिकम्पनम्। सविस्फुलिङ्गं सज्वालं धूममिश्रं सुदारुणम्
तेन राजन्न शक्नोमि तस्मिन्स्तातुं स्वआंश्रमे
तं विनाशय राजेन्द्र लोकानां हितकाम्यया। लकाः स्वस्था भविष्यन्ति तस्मिन्विनिहतेऽसुरे
धुन्धुनामानमत्युग्रं दानवं धोरविग्रहम्। समरे धोरतुमुले विनाशय महेषुणा
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः। तेजसा तव तेजश्च विष्णुराप्यायविष्यति
विष्णुना च वरो दत्तः पूर्वं मम महीपते
यस्तं महासुरं रौद्रं वधिष्यति महीपतिः। तेजस्तद्वैष्णवमिति प्रवेक्ष्यति दुरासदम्
तत्तेजस्त्वंसमाधाय राजेन्द्र भुवि दुःसहम्। तं निषूदय संदिष्टो दैत्यं रौद्रपराक्रमम्
न हि धुन्धुर्महातेजास्तेजसाऽल्पेन शक्यते। निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि
धुन्धुर्नाम महाराज तयोः पुत्रो महाद्युतिः। स तपोऽतप्यत महन्महावीर्यपराक्रमः
अतिष्ठदेकपादेन कृशो धमनिसंततः। तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम्
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम्। अवध्योऽहं भवेयं वै वर एष वृतो मया
एवं भवतु गच्छेति तमुवाच पितामहः। स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृष्ट्वा जगाम ह
सतु धुन्धुर्वरं लब्ध्वा महवीर्यपराक्रमः। अनुस्मरन्पितृवधं द्रुतं विष्णुमुपागमत्
सतु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः। बबाध सर्वानसकृद्विष्णुं देवांश्च वै भृशम्
समुद्रवालुकापूर्णे उज्जानक इति स्मृते। आगम्य च स दुष्टात्मा तं देशं भरतर्षभ। बाधतेस्म परं शक्त्या तमुदङ्काश्रमं विभो
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तथा। मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः
शेते लोकविनाशाय तपोबलमुपाश्रितः। उदङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः
एतस्मिन्नेव काले तु राजा सबलवाहनः। कुवलाश्वो नरपतिरन्वितो बलशालिनाम्
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः। प्रायादुदङ्कसहितो धुन्धोस्तस्य वधाय वै
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः। उदङ्कस् नियोगेन लोकानां हितकाम्यया
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत्। एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति
दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन्। देवदुन्दुभयश्चापि नेदुः स्वयमनीरिताः
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः। विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः। `प्रदक्षिणाश्चाप्यभवन्वन्यास्तं समृगद्विजाः
अन्तरिक्षे विमानानि देवतानां युधिष्ठिर। तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः
कुवलाश्वस्य धुन्योश्च युद्धकौतूहलान्विताः। देवगन्धर्वसहिताः समवैक्षन्महर्षयः
नारायणेन कौरव्य तेजसाऽऽप्यायितस्तदा। स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम्
अर्णवं स्वानयामास कुवलाश्वो महीपतिः। `हितार्तं सर्वलोकानामुदङ्कस्य वशे स्थितः