शशादस्य तु दायाद ककुत्स्थो नाम वीर्यवान्। अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रश्च जज्ञिवान्। आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता। श्रावस्तस्य तु दायादो बृहदश्वो महाबलः
बृहदश्वस् दायादः कुवलाश्व इति स्मृतः। कुवलाश्वस्य पुत्राणां सहस्राण्येकविंसतिः
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः। कुवलाश्वश्च पितृतोगुणैरभ्यधिकोऽभवत्
समये तं तदा राज्ये बृहदश्वोऽभ्यषेचयत्। कुवलाश्वं महाराज शूरमुत्तमधार्मिकम्
पुत्रसंक्रामितश्रीस्तु बृहदश्वो महीपतिः। जगाम तपसे धीमांस्तपोवनममित्रहा
अथ शश्वाव राजर्षिं तमुदङ्को नराधिप। वनं संप्रस्थितं राजन्बृहदश्वं द्विजोत्तमः
तमुदङ्को महातेजाः सर्वास्त्रविदुषांवरम्। न्यवारयदमेयात्मा समासाद्य पुरोत्तमे
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि। निरुद्विग्रा वयं राजंस्त्वत्प्रदाद्वसेमहि
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना। भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि
पालन हि महान्धर्मः प्रजानामिह दृश्यते। न तथा दृश्यतेऽरण्ये माभूत्ते बुद्धिरीदृशी
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते। प्रजानां पालने यत्नः पुरा राजर्षिभिः कृतः
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि। निरुद्विग्नस्तपस्तप्तुं न हि शक्नोमि पार्थिव
ममाश्रमसमीपे वै समेषु मरुधन्वसु। समुद्रवालुकापूर्ण उज्जालक इति स्मृतः। बहुयोजनविस्तीर्णो बहुयोजनमायतः
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः। मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः। अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः
तं निहत्य महाराज वनं त्वं गन्तुमर्हसि
शेते लोकविनाशाय तप आस्थाय दारुणम्। त्रिदशानां विनाशाय लोकानां चापि पार्थिव
अवध्यो दैवतानां हि दैत्यानामथ रक्षसाम्। नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः। अवाप्यस वरं राजन्सर्वलोकपितामहात्
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा। प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम्
क्रूरस्य तस्य स्वपतो वालुकान्तर्हितस्य च। संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते
यदा तदा भूश्चलति सशैलवनकानना। तस्य निःश्वासवातेन रज उद्धूयते महत्
आदित्यरथमाश्रित्य सप्ताहं भूमिकम्पनम्। सविस्फुलिङ्गं सज्वालं धूममिश्रं सुदारुणम्
तेन राजन्न शक्नोमि तस्मिन्स्तातुं स्वआंश्रमे
तं विनाशय राजेन्द्र लोकानां हितकाम्यया। लकाः स्वस्था भविष्यन्ति तस्मिन्विनिहतेऽसुरे
धुन्धुनामानमत्युग्रं दानवं धोरविग्रहम्। समरे धोरतुमुले विनाशय महेषुणा
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः। तेजसा तव तेजश्च विष्णुराप्यायविष्यति
विष्णुना च वरो दत्तः पूर्वं मम महीपते
यस्तं महासुरं रौद्रं वधिष्यति महीपतिः। तेजस्तद्वैष्णवमिति प्रवेक्ष्यति दुरासदम्
तत्तेजस्त्वंसमाधाय राजेन्द्र भुवि दुःसहम्। तं निषूदय संदिष्टो दैत्यं रौद्रपराक्रमम्