शृणु दानरहस्यानि श्रुतिस्मृत्युदितानि च। छायायां करिणः श्राद्धं तत्कर्म परिवीजितम्। दशकल्पायुतानीह न क्षीयेत युधिष्ठिर
जीवनाय समाक्लिन्नं वसु दत्त्वा महीपते। विप्रं तु वासयेद्यस्तु सर्वयज्ञैः स इष्टवान्
प्रतिस्रोतश्चित्रवाहाः पर्जन्योऽन्नानुसंचरन्। महाधुरि यथा नावा महापापैः प्रमुच्यते। विषुवे विप्रदत्तानि दधिमध्वक्षयाणि च
पर्वसु द्विगुणं दानमृतौ दशगुणं भवेत्। `अब्दे दशगुणं प्रोक्तमनन्तं विषुवे भवेत्
अयने विषुवे चैवषडशीतिमुखेषु च। चन्द्रसूर्योपरागे च दत्तमक्षयमुच्यते
ऋतुषु दशगुणं वदन्ति दत्तं शतगुणमृत्वयनादिषु ध्रुवम्। भवति सहस्रगुणं दिनस्य राहो- र्विषुवति चाक्षयमश्नुते फलम्
नाभूमिदो भूमिमश्नाति राज- न्नायानदो यानमारुह्य याति। यान्यान्कामान्ब्राह्मणेभ्यो ददाति तांस्तान्कामाञ्जायमानः स भुङ्क्ते
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः। लोकाश्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गाश्च महीं च दद्यात्
परंहि दानान्न बभूव शाश्वतं भव्यं त्रिलोके भवते कुतः पुनः। तस्मात्प्रधानं परमं हि दानं वदन्ति लोकेषु विशिष्टबुद्धयः
इक्ष्वाकौ संस्तिते राजञ्शशादः पृथिवीमिमाम्। प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत्
शशादस्य तु दायाद ककुत्स्थो नाम वीर्यवान्। अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रश्च जज्ञिवान्। आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता। श्रावस्तस्य तु दायादो बृहदश्वो महाबलः
बृहदश्वस् दायादः कुवलाश्व इति स्मृतः। कुवलाश्वस्य पुत्राणां सहस्राण्येकविंसतिः
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः। कुवलाश्वश्च पितृतोगुणैरभ्यधिकोऽभवत्
समये तं तदा राज्ये बृहदश्वोऽभ्यषेचयत्। कुवलाश्वं महाराज शूरमुत्तमधार्मिकम्
पुत्रसंक्रामितश्रीस्तु बृहदश्वो महीपतिः। जगाम तपसे धीमांस्तपोवनममित्रहा
अथ शश्वाव राजर्षिं तमुदङ्को नराधिप। वनं संप्रस्थितं राजन्बृहदश्वं द्विजोत्तमः
तमुदङ्को महातेजाः सर्वास्त्रविदुषांवरम्। न्यवारयदमेयात्मा समासाद्य पुरोत्तमे
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि। निरुद्विग्रा वयं राजंस्त्वत्प्रदाद्वसेमहि
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना। भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि
पालन हि महान्धर्मः प्रजानामिह दृश्यते। न तथा दृश्यतेऽरण्ये माभूत्ते बुद्धिरीदृशी
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते। प्रजानां पालने यत्नः पुरा राजर्षिभिः कृतः
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि। निरुद्विग्नस्तपस्तप्तुं न हि शक्नोमि पार्थिव
ममाश्रमसमीपे वै समेषु मरुधन्वसु। समुद्रवालुकापूर्ण उज्जालक इति स्मृतः। बहुयोजनविस्तीर्णो बहुयोजनमायतः
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः। मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः। अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः
तं निहत्य महाराज वनं त्वं गन्तुमर्हसि
शेते लोकविनाशाय तप आस्थाय दारुणम्। त्रिदशानां विनाशाय लोकानां चापि पार्थिव
अवध्यो दैवतानां हि दैत्यानामथ रक्षसाम्। नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः। अवाप्यस वरं राजन्सर्वलोकपितामहात्
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा। प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम्