वेदाढ्ञा वृत्संपन्ना ज्ञानवन्तस्तपस्विनः। यत्रतिष्न्ति वै विप्रास्तन्नाम नगरं नृप
व्रजे वाऽप्यथवाऽरण्ये यत्रसन्ति बहुश्रुताः। तत्तन्नगरमित्याहुः पार्थ तीर्थं च तद्भवेत्
रक्षितारं च राजानं ब्राह्मणं च तपस्विनम्। अभिगम्याभिपूज्याथ सद्यः पापात्प्रमुच्यते
पुण्यतीर्थाभिषेकं च पवित्राणां च कीर्तनम्। सद्भिः संभाषणं चैव प्रशस्तं कीर्त्यते बुधैः
साधुसङ्गमपूतेन वाक्सुभाषितवारिणा। पवित्रीकृतमात्मानं सन्तो मन्न्ति नित्यशः
त्रिदण्डधारणं मौनं जटाभारोऽथ मुण्डनम्। वल्कलाजिनसंवेष्टं व्रतचर्याऽभिषेचनम्
अग्निहोत्रं वने वासः शरीरपरिशोषणम्। सर्वाण्येतानि मिथ्या स्युर्यदि भावो न निर्मलः
विशुद्धिं चक्षुरादीनां षण्णामिन्द्रियगामिनाम्। विकारि तेषां राजेन्द्र सुदुष्करतरं मनः
ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः। ते तपन्ति महात्मानो न शरीरस्य शोषणम्
न ज्ञातिभ्यो दया यस्य शुक्लदेहोऽविकल्मषः। हिंसा सा तपसस्तस्य नानाशित्वं तपः स्मृतम्
तिष्ठन्गृहे चैव मुनिर्नित्यं शुचिरलंकृतः। यावज्जीवं दयावांश् सर्वपापैः प्रमुच्यते
न हि पापानि कर्माणि शुद्ध्यन्त्यनशनादिभिः। सीदत्यनशनादेव मांसशोणितलेपनः
अज्ञातं कर्म कृत्वा च क्लेशो नान्यत्प्रहीयते। नाग्निर्दहति कर्माणि भावशून्यस्य देहिनः
पुण्यादेव प्रव्रजन्ति शुध्यन्त्यनशनानि च। न मूलफलभक्षित्वान्न मौनान्नानिलाशनात्
शिरसो मुण्डनाद्वाऽपि न स्थानकुटिकासनात्। न जटाधारणाद्वाऽपिन तु स्थानकुटिकासनात्
नित्यं ह्यनशनाद्वाऽपि नाग्निशुश्रूषणादपि। न चोदकप्रवेशेन न च क्ष्माशयनादपि
ज्ञानेन कर्मणा वापि जरामरणमेव च। व्याधयश्च प्रहीयन्ते प्राप्यते चोत्तमं पदम्
बीजानि ह्यग्निदग्धानि न रोहन्ति पुनर्यथा। ज्ञानदग्धैस्तधा क्लेशैर्नात्मा संडुज्यते पुनः
आत्मना विप्रहीणानि काष्ठकुण्ठोपमानि च। विनश्यन्ति न संदेहः फेनानीव महार्णवे
आत्मानं विन्दते येन सर्वभूतगुहाशयम्। श्लोकेन यदि वाऽर्धेन क्षीणं तस्य प्रयोजनम्
द्व्यक्षरादभिसंधाय केचिच्छ्लोकपदाङ्कितैः। शतैरन्यैः सहस्रैश्च प्रत्ययो मोक्षलक्षणम्
नायं लोकोस्ति न परो न सुखं संशयात्मनः। ऊटुर्ज्ञानविदो वृद्धाः प्रत्ययो मोक्षलक्षणम्
विदितार्थस्तु वेदानां परिवेद प्रयोजनम्। उद्विजेत्स तु देवेभ्यो दावाग्नेरिव मानवः
शुष्कं तर्कं परित्यज्यआश्रयस्व श्रुतिं स्मृतिम्। एकाराभिसंबद्धं तत्त्वं हेतुभिरिच्छसि। बुद्धिर्न तस्य सिद्ध्येत साधनस्य विपर्ययात्
वेद्यं पूर्वं वेदितव्यं प्रयत्ना- त्तद्धीर्वेदस्तस्य वेदः शरीरम्। वेदस्तत्त्वं तत्समासोपलब्धिः क्लीबस्त्वात्मा न स वेद्यं न वेदः
वेदोक्तमायुर्देवानामाशिषश्चैव कर्मणाम्। फलत्यनुयुगं लोके प्रभावश्च शरीरिणाम्
इन्द्रियाणां प्रसादेन तदेतत्परिवर्जयेत्। तस्मादनशनं दिव्यं निरुद्धेन्द्रियगोचरम्
तपसा स्वर्गगमनं भोगो दानेन जायते। ज्ञानेन मोक्षो विज्ञेयस्तीर्थस्नानादघक्षयः
एवमुक्तस्तु राजेन्द्र प्रत्युवाच महायशाः। भगवञ्श्रोतुमिच्छामि प्रदानविधिमुत्तमम्
यत्तत्पृच्छसि राजेन्द्रदानधर्मं युधिष्ठिर। इष्टं चेदं सदा मह्यं राजन्गौरवतस्तथा