यावन्ति तस्यां रोमाणि वत्सस्य च युधिष्ठिर। तावद्युगसहस्राणि स्वर्लोके महीयते
सुवर्णनासां यः कृत्वा सखुरां कृष्णधेनुकाम्। तिलैः प्रच्छादितां दद्यात्सर्वरत्नैरलंकृताम्
प्रतिग्रहं गृहीत्वा यः पुनर्ददति साधवे। फलानां फलमश्नाति तदा दत्त्वा च भारत
ससमुद्रगुहा तेन सशैलवनकानना। चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः
अन्तर्जानुशयो यस्तु भुञ्जते सक्तभाजनः। यो द्विजः शब्दरहितं संयन्तुस्तारणाय वै
ये पानीयानि ददति तथाऽन्ये ये द्विजातयः। जपन्ति संहितां सम्यक्ते नित्यं तारणक्षमाः
हव्यंकव्यं च यत्किंचित्सर्वं तच्छ्रोत्रियोऽर्हति। दत्तं हि श्रोत्रिये साधौज्यलितेऽग्नौ यथा हुतम्
मन्युप्रहरणा विप्रा न विप्राः शस्त्रयोधिनः। निहन्युर्मन्युना विप्रा वज्रपाणिरिवासुरान्
धर्माश्रितेयं तु कथा कथिता हि तवानघ। यां श्रुत्वा मुनयः प्रीता नैमिषारण्यवासिनः
वीतशोकभयक्रोधा विपाप्मानस्तथैव च। श्रुत्वेमां तु कथां राजन्भवन्तीह तु मानवाः
किं तच्छौचं भवेद्येन विप्रः शुद्धः सदा भवेत्। तदिच्छामि महाप्राज्ञ श्रोतुं धर्मभृतांवर
वाक्शौचं क्रमशौचं च यच्च शौचं जलात्मकम्। त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः
सायं प्रातश्च संध्यां यो ब्राह्मणोऽभ्युपसेवते। प्रजपन्पावनीं देवीं गायत्रीं वेदमातरम्
स तया पावितो देव्या ब्राह्मणो नष्टकिल्बिषः। न सीदेत्प्रतिगृह्णानो महीमपि ससागराम्
ये चास् दारुणा केचिद्ग्रहाः सूर्यादयो दिवि। ते चास्य सौम्या जायन्ते शिवाः शिवतराः सदा
सर्वेनानुगतं चैनं दारुणाः पिशिताशनाः। घोररूपा महाकाया धर्षयन्ति द्विजोत्तमम्
नाध्यापनाद्याजनाद्वा अन्यायाद्वा प्रतिग्रहात्। दोषो भवति विप्राणां ज्वलिताग्निससा द्विजाः
दुर्वेदा वा सुवेदा वा प्राकृताः संस्कृतास्तथा। ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः
यथा श्मशाने दीप्तौजाः पावको नैव दुष्यति। एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत्
प्राकरैश्च पुरद्वारैः प्रासादैश्च पृथग्विधैः। नगराणि न शोभन्ते हीनानि ब्राह्मणोत्तमैः
वेदाढ्ञा वृत्संपन्ना ज्ञानवन्तस्तपस्विनः। यत्रतिष्न्ति वै विप्रास्तन्नाम नगरं नृप
व्रजे वाऽप्यथवाऽरण्ये यत्रसन्ति बहुश्रुताः। तत्तन्नगरमित्याहुः पार्थ तीर्थं च तद्भवेत्
रक्षितारं च राजानं ब्राह्मणं च तपस्विनम्। अभिगम्याभिपूज्याथ सद्यः पापात्प्रमुच्यते
पुण्यतीर्थाभिषेकं च पवित्राणां च कीर्तनम्। सद्भिः संभाषणं चैव प्रशस्तं कीर्त्यते बुधैः
साधुसङ्गमपूतेन वाक्सुभाषितवारिणा। पवित्रीकृतमात्मानं सन्तो मन्न्ति नित्यशः
त्रिदण्डधारणं मौनं जटाभारोऽथ मुण्डनम्। वल्कलाजिनसंवेष्टं व्रतचर्याऽभिषेचनम्
अग्निहोत्रं वने वासः शरीरपरिशोषणम्। सर्वाण्येतानि मिथ्या स्युर्यदि भावो न निर्मलः
विशुद्धिं चक्षुरादीनां षण्णामिन्द्रियगामिनाम्। विकारि तेषां राजेन्द्र सुदुष्करतरं मनः
ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः। ते तपन्ति महात्मानो न शरीरस्य शोषणम्
न ज्ञातिभ्यो दया यस्य शुक्लदेहोऽविकल्मषः। हिंसा सा तपसस्तस्य नानाशित्वं तपः स्मृतम्