तृप्ताश्चैवान्नदातारो ह्यतृप्ताश्चाप्यनन्नदाः। वस्त्रिणो वस्त्रदा यान्ति अवस्त्रा यान्त्यवस्त्रदाः
हिरण्यदाः सुखं यान्ति पुरुषास्त्वभ्यलंकृताः। भूमिदास्तुसुखं यान्ति सर्वैः कामैः सुतर्पिताः
यान्ति चैवापरिक्लिष्टा नरा सस्यप्रदावकाः। नराः सुखतरं यान्ति विमानेषु गृहप्रदाः
पानीयदा ह्यतृषिताः प्रहृष्टमनसो नराः। पन्थानं द्योतयन्तश्च यान्ति दीपप्रदाः सुखम्
गोप्रदास्तु सुखं यान्ति निर्मुक्ताः सर्वपातकैः। विमानैर्हंससंयुक्तैर्यान्ति मासोपवासिनः
तथा बर्हिप्रयुक्तैश्च षष्ठरात्रोपवासिनः। त्रिरात्रं क्षपते यस्तु एकभक्तेन पाण्डव
अन्तरा चैव नाश्नाति तस्य लोका ह्यनामयाः। पानीयस्य गुणा दिव्याः प्रेतलोकसुखावहाः
तत्र पुष्पोदका नाम नदी तेषां विधीयते। शीतलं सलिलं तत्रपिबन्ति ह्यमृतोपमम्
ये चदृष्कृतकर्माणः पूयं तेषां विधीयते। एवं नदी महाराज सर्वकामप्रदा हि सा
तस्मात्त्वमपि राजेन्द्र पूजयैनान्यथाविधि। अध्वनिं क्षीणगात्रश्च पथि पांशुसमन्वितः
पृच्छते ह्यन्नदातारं गृहमायाति चाशया। तं पूजयाथ यत्नेन सोऽतिथिर्ब्राह्यणश्च सः
तं यान्तमनुगच्छन्ति देवाः सर्वे सवासवाः। तस्मिन्संपूजिते प्रीता निराशा यान्त्यपूजिते
तस्मात्त्वमपि राजेन्द्र पूजयैनं यथाविधि। एतत्ते शतशः प्रोक्तं किं भूयः श्रोतुमिच्छसि
पुनः पुनरहं श्रोतुं कथां धर्मसमाश्रयाम्। पुण्यामिच्छामि धर्मज्ञ कथ्यमानां त्वया विभो
धर्मान्तरं प्रति कथां कथ्यमानां मया नृप। सर्वपापहरां नित्यं शृणुष्वावहितो मम
कपिलायां तु दत्तायां यत्फलंज्येष्ठपुष्करे। तत्फलंभरतश्रेष्ठ विप्राणां पादधावने
द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी। तावत्पुष्करपर्णेन पिबन्ति पितरो जलम्
स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः। पितरः पादशौचेन अन्नाद्येन प्रजापतिः
यावद्वत्सस्य पादौ द्वौ शिरश्चैव प्रदृश्यते। तस्मिन्काले प्रदातव्या प्रयतेनान्तरात्मना
अन्तरिक्षगतो वत्सो यावद्योन्यां प्रदृश्यते। तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति
यावन्ति तस्यां रोमाणि वत्सस्य च युधिष्ठिर। तावद्युगसहस्राणि स्वर्लोके महीयते
सुवर्णनासां यः कृत्वा सखुरां कृष्णधेनुकाम्। तिलैः प्रच्छादितां दद्यात्सर्वरत्नैरलंकृताम्
प्रतिग्रहं गृहीत्वा यः पुनर्ददति साधवे। फलानां फलमश्नाति तदा दत्त्वा च भारत
ससमुद्रगुहा तेन सशैलवनकानना। चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः
अन्तर्जानुशयो यस्तु भुञ्जते सक्तभाजनः। यो द्विजः शब्दरहितं संयन्तुस्तारणाय वै
ये पानीयानि ददति तथाऽन्ये ये द्विजातयः। जपन्ति संहितां सम्यक्ते नित्यं तारणक्षमाः
हव्यंकव्यं च यत्किंचित्सर्वं तच्छ्रोत्रियोऽर्हति। दत्तं हि श्रोत्रिये साधौज्यलितेऽग्नौ यथा हुतम्
मन्युप्रहरणा विप्रा न विप्राः शस्त्रयोधिनः। निहन्युर्मन्युना विप्रा वज्रपाणिरिवासुरान्
धर्माश्रितेयं तु कथा कथिता हि तवानघ। यां श्रुत्वा मुनयः प्रीता नैमिषारण्यवासिनः
वीतशोकभयक्रोधा विपाप्मानस्तथैव च। श्रुत्वेमां तु कथां राजन्भवन्तीह तु मानवाः