धान्यं श्रमेणार्जितवित्तसंचितं विप्रे सुशीले प्रतियच्छते यः। वसुंधरा तस्य भवेत्सुतुष्टा धारां वसूनां प्रतिमुञ्चतीव
अन्नदाः प्रथमं यान्ति सत्यवाक्यदनन्तरम्। अयाचितप्रदाता च समं यान्ति त्रयो जनाः
कौतूहलसमुत्पन्नः पर्यपृच्छद्युधिष्ठिरः। मार्कण्डेयं महात्मानं पुनरेव सहानुजः
यमलोकस्य चाध्वानमन्तरं मानुषस्य च। कीदृशं किंप्रमाणं वा कथं वा तन्महामुने। तरन्ति पुरुषाश्चैव केनोपायेन शंस मे
सर्वगुह्यतनं प्रश्नं पवित्रमृषिसंस्तुतम्। कथयिष्यामि ते राजन्धर्मं धर्मभृतांवर
षडशीतिसहस्राणि योजनानां नराधिप। यमलोकस्य चाध्वानमन्तरं मानुषस्य च
आकाशं तदपानीयं घोरं कान्तारदर्शनम्। न तत्र वृक्षच्छाया वा पानीनं केतनानि च
विश्रमेद्यत्र वै श्रान्तः पुरुषोऽध्वनि कर्शितः। नीयते यमदूतैस्तु यमस्वाज्ञाकरैर्बलात्
नराः स्त्रियस्तथैवान्ये पृथिव्यां जीवसंज्ञिताः। ब्रह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव
हयादीनां प्रकृष्टानि तेऽध्वानं यान्ति वै नराः। सन्निवार्यातपं यानति च्छत्रेणैव हि च्छत्रदाः
तृप्ताश्चैवान्नदातारो ह्यतृप्ताश्चाप्यनन्नदाः। वस्त्रिणो वस्त्रदा यान्ति अवस्त्रा यान्त्यवस्त्रदाः
हिरण्यदाः सुखं यान्ति पुरुषास्त्वभ्यलंकृताः। भूमिदास्तुसुखं यान्ति सर्वैः कामैः सुतर्पिताः
यान्ति चैवापरिक्लिष्टा नरा सस्यप्रदावकाः। नराः सुखतरं यान्ति विमानेषु गृहप्रदाः
पानीयदा ह्यतृषिताः प्रहृष्टमनसो नराः। पन्थानं द्योतयन्तश्च यान्ति दीपप्रदाः सुखम्
गोप्रदास्तु सुखं यान्ति निर्मुक्ताः सर्वपातकैः। विमानैर्हंससंयुक्तैर्यान्ति मासोपवासिनः
तथा बर्हिप्रयुक्तैश्च षष्ठरात्रोपवासिनः। त्रिरात्रं क्षपते यस्तु एकभक्तेन पाण्डव
अन्तरा चैव नाश्नाति तस्य लोका ह्यनामयाः। पानीयस्य गुणा दिव्याः प्रेतलोकसुखावहाः
तत्र पुष्पोदका नाम नदी तेषां विधीयते। शीतलं सलिलं तत्रपिबन्ति ह्यमृतोपमम्
ये चदृष्कृतकर्माणः पूयं तेषां विधीयते। एवं नदी महाराज सर्वकामप्रदा हि सा
तस्मात्त्वमपि राजेन्द्र पूजयैनान्यथाविधि। अध्वनिं क्षीणगात्रश्च पथि पांशुसमन्वितः
पृच्छते ह्यन्नदातारं गृहमायाति चाशया। तं पूजयाथ यत्नेन सोऽतिथिर्ब्राह्यणश्च सः
तं यान्तमनुगच्छन्ति देवाः सर्वे सवासवाः। तस्मिन्संपूजिते प्रीता निराशा यान्त्यपूजिते
तस्मात्त्वमपि राजेन्द्र पूजयैनं यथाविधि। एतत्ते शतशः प्रोक्तं किं भूयः श्रोतुमिच्छसि
पुनः पुनरहं श्रोतुं कथां धर्मसमाश्रयाम्। पुण्यामिच्छामि धर्मज्ञ कथ्यमानां त्वया विभो
धर्मान्तरं प्रति कथां कथ्यमानां मया नृप। सर्वपापहरां नित्यं शृणुष्वावहितो मम
कपिलायां तु दत्तायां यत्फलंज्येष्ठपुष्करे। तत्फलंभरतश्रेष्ठ विप्राणां पादधावने
द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी। तावत्पुष्करपर्णेन पिबन्ति पितरो जलम्
स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः। पितरः पादशौचेन अन्नाद्येन प्रजापतिः
यावद्वत्सस्य पादौ द्वौ शिरश्चैव प्रदृश्यते। तस्मिन्काले प्रदातव्या प्रयतेनान्तरात्मना
अन्तरिक्षगतो वत्सो यावद्योन्यां प्रदृश्यते। तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति