तस्मात्सर्वास्ववस्थासु सर्वदानानि पार्थिव। दातव्यानि द्विजातिभ्यः स्वर्गमार्गजिगीषया
चातुर्वर्ण्यस्य सर्वस्य वर्तमानाः प्रतिग्रहे। केन विप्रा विशेषेण तारयन्ति तरन्ति च
जपैर्मन्त्रैश्च होमैश्च स्वाध्यायाध्यायनेन च। नावं वेदमयीं कृत्वातारयन्ति तरन्ति च
ब्राह्मणांस्तोषयेद्यस्तु तुष्यन्ते तस्य देवताः। वचनाच्चापि विप्राणां स्वर्गलोकमवाप्नुयात्
अनन्तं पुण्यलोकं तु गन्ताऽसौ तु न संशयः। श्लेष्मादिभिर्व्याप्ततनुर्म्रियमाणोऽविचेतनः
ब्राह्णा एव संपूज्याः पुण्यं स्वर्गमभीप्सता। श्राद्धकाले तु यत्नेन भोक्तव्या ह्यजुगुप्सिताः
दुर्बलः कुनस्वी कुष्ठी मायावी कुण्डगोलकौ। वर्जनीयाः प्रयत्नेन काण्डपृष्ठाश्च देहिनः
जुगुप्सितं हि यच्छ्राद्धं दहत्यग्निरिवेन्धनम्
ये ये श्राद्धे न पूज्यन्ते मूकान्धबधिरादयः। तेऽपिसर्वे नियोक्तव्या मिश्रिता वेदपारगैः
प्रतिग्रहश्च वै देयः शृणु यस् युधिष्ठिर। प्रदातारं तथाऽऽत्मानं यस्तारयति शक्तिमान्
तस्मिन्देयं द्विजे दानं सर्वागमविजानता। प्रदातारं तथाऽऽत्मानं तारयेद्यः स शक्तिमान्
न तथा हविषो होमैर्न पुष्पैर्नानुलेपनैः। अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिभोजने
तस्मात्त्वंसर्वयत्नेन यतस्वातिथिभोजने
पादोदकंपादघृतंदीपमन्नं प्रतिश्रयम्। प्रयच्छन्ति तु ये राजन्नोपसर्पन्ति ते यमम्
देवमाल्यापनयनं द्विजोच्छिष्टावमार्जनम्। आकल्पपरिचर्या च गात्रसंवाहनानि च। अत्रैकैकं नृपश्रेष्ठ गोदानाद्व्यतिरिच्यते
कपिलायाः प्रदानात्तु मुच्यते नात्र संशयः। तस्मादलंकृतां दद्यात्कपिलां तु द्विजातये
श्रोत्रियाय दरिद्राय गृहस्थायाग्निहोत्रिणे। पुत्रदाराभिभूताय तथा ह्यनुपकारिणे
एवंविधेषु दातव्या न समृद्धेषु भारत। को गुणो भरतश्रेष्ठ समृद्धेष्वभिवर्जितम्
एकस्यैका प्रदातव्या न बहूनां कदाचन। सा गौर्विक्रयमापन्ना हन्यात्रिपुरुषं कुलम्। न तारयति दातारं ब्राह्मणं नैव नैव तु
ब्राह्मणस्य विशुद्धस्य सुवर्णं यः प्रयच्छति। सुवर्णानां शतं तेन दत्तं भवति शाश्वतम्
अनड्वाहं तु यो दद्याद्बलवन्तं धुरंधरम्। स निस्तरति दुर्गाणि स्वर्गलोकं च गच्छति
वसुंधरां तु यो दद्याद्द्विजाय विदुषात्मने। दातारं ह्यनुगच्छन्ति सर्वे कामाभिवाञ्छिताः
पृच्छन्ति चान्नदातारं वदन्ति पुरुषा भुवि। अध्वनि क्षीणगात्राश्च पांसुना चावकुण्ठिताः
तेषामेव श्रमार्तानां यो ह्यन्नं कथयेद्बुधः। अन्नदातृसमः सोपि कीर्त्यते नात्र संशयः
तस्मात्त्वं सर्वदानानि हित्वाऽन्नं संप्रयच्छ ह। न हीदृशं पुण्यफलं विचित्रामिह विद्यते
यथाशक्ति च यो दद्यादन्नं विप्रेषु संस्कृतम्। स तेन कर्मणाऽऽप्नोति प्रजापतिसलोकताम्
अन्नमेव विशिष्टं हि तस्मात्परतरं न च। अन्नं प्रजापतिश्चोक्तः स च संवत्सरो मतः
संवत्सरस्तु यज्ञोऽसौ सर्वं यज्ञे प्रतिष्ठितम्। तस्मात्सर्वाणि भूतानि स्थावराणि चराणि च
तस्मादन्नं विशिष्टं हि सर्वेभ्यइति विश्रुतम्
येषां तटाकानि महोदकानि वाप्यश्चकूपाश्चप्रतिश्रयाश्च। अन्नस्य दानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति