ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन। लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्। सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता
सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह। अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्
बीभत्सुर्वासुदेवेन सहितो नृपस्तम। नातिभारो हि पार्थस्य केशवेन सहाभवत्
व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव। पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्
इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्। मोक्षयामास बीभत्सुर्मयं यत्र महासुरम्
स चकार सभां दिव्यां सर्वरत्नसमाचिताम्। तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्। वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च
अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम्। ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु
नालभन्त महाराज ततो युद्धमवर्तत। ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम्
राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः। `इष्ट्वा क्रतूंश्च विविधानश्वमेधादिकान्बहून्
धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते। गमयित्वा क्रियां स्वर्ग्यां राज्ञाममिततेजसाम्
स्वं धाम याते वार्ष्णेये कृष्णदारान्प्ररक्ष्य च। महाप्रस्थानिकं कृत्वा गताः स्वर्गमनुत्तमम्
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्। भेदो राज्यविनाशश्च जयश्च जयतांवर
कथितं वै समासेन त्वया सर्वं द्विजोत्तम। महाभारतमाख्यानं कुरूणां चरितं महत्
कथां त्वनघ चित्रार्थां कथयस्व तपोधन। विस्तरश्रवणे जातं कौतूहलमतीव मे
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्
न तत्कारणमल्पं वै धर्मज्ञा यत्र पाण्डवाः। अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः। प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम्
कथं नागायुतप्राणो बाहुशाली वृकोदरः। परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः। शक्ता सती धार्तराष्ट्रान्नादहत्क्रोधचक्षुषा
कथं व्यसनिनं द्यूते पार्थौ माद्रीसुतौ तदा। अन्वयुस्ते नरव्याघ्रा बाध्यमाना दुरात्मभिः
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्। अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः। अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन। यद्यच्च कृतवन्तस्ते तत्रतत्र महारथाः
क्षणं कुरु महाराज विपुलोऽयमनुक्रमः। पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्। सत्यवत्यात्मजेनेह व्याख्यातममितौजसा
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्। संक्षेपेण तु वक्ष्यामि सर्वमेतन्नराधिप
अध्यायानां सहस्रे द्वे पर्वणां शतमेव च। श्लोकानां तु सहस्राणि नवतिश्च दशैव च। ततोऽष्टादशभिः पर्वैः संगृहीतं महर्षिणा