यथा मां वै साधुवादैः प्रसन्नाः प्रशंसेयुः शिबयः कर्मणा तु। यथा श्येन प्रियमेव कुर्यां प्रशाधि मां यद्वदेस्तत्करोमि
ऊरोर्दक्षिणादुत्कृत्य स्वपिशितं तावद्राजन्यावन्मांसं कपोतेन समम् ।। तथा तस्मात्साधु त्रातः कपोतः प्रशंसेयुश्च शिबय कृतं च प्रियं स्यान्ममेति
अथ स दक्षिणादूरोरुत्कृत्य स्वमांसपेशीं तुलयाधारयत् ।। गुरुतर एव कपोत आसीत्
पुनरन्यमुच्चकर्त गुरुतर एव कपोतः ।। एवं सर्वं समधिकृत्य शरीरं तुलायामारोपयामास रतत्तथापि गुरुतर एव कपोत आसीत्
अथ राजा स्वयमेव तुलामारुरोह ।। न च व्यलीकमासीद्राज्ञ एतद्वृत्तान्तं दृष्टाव त्रात इत्युक्त्वा प्रालीयत श्येनः अथ राजा अब्रवीत्
कपोतं विद्युः शिवयस्त्वां कपोत पृच्छामि ते शकुने को नु श्येनः। नानीश्वर ईदृशं जातु कुर्या- देतं प्रश्नं भगवन्मे विचक्ष्व
वैश्वानरोऽहं ज्वलनो धूमकेतु- रथैव श्येनो वज्रहस्तः शचीपतिः। साधु ज्ञातुं त्वामृषभं सौरथेय नौ जिज्ञासया त्वत्सकाशंप्रपन्नौ
यामेतां पेशीं मम निष्क्रयाय प्रादाद्भवानसिनोत्कृत्य राजन्। एतद्वो लक्ष्म शिवं करोमि हिरण्यवर्णं रुचिरं पुण्यगन्धम्
एतासां प्रजानां पालयिता यशस्वी सुरर्षीणामथ संमतो भृशम्। एतस्मात्पार्श्वात्पुरुषो जनिष्यति कपोतरोमेति च तस्य नाम
कपोतरोमाणं शिबिनौद्भिदं पुत्रं प्राप्स्यसि नृपवृषसंहननं यशोदीप्यमानं द्रष्टासि शूरमृषभं सौरथानाम्
श्रुत्वा स राजा राजर्षिरिन्द्रद्युम्नस्य तत्तदा। मार्कण्डेयान्महाभागात्स्वर्गस्य प्रतिपादनम्
युधिष्ठिरो महाराज पुनः पप्रच्छ तं मुनिम्। कीदृशीषु ह्यवस्थासु दत्त्वा दानं महामुने। इन्द्रलोकं त्वनुभवेत्पुरुषस्तद्ब्रवीहि मे
गार्हस्थ्येऽप्यथवा बाल्ये यौवने स्थाविरेऽपि वा। यथा फलं समश्नाति तथा त्वं कथयस्व मे
वृथा जन्मानि चत्वारि वृथा दानानि षोडश। वृथा जन्म ह्यपुत्रस् ये च धर्मबहिष्कृताः
परपाकं च येऽश्नन्ति आत्मार्थं च पचेत्तु यः। पर्यश्नन्ति वृथा यत्र तदसत्यं प्रकीर्त्यते
आरूढपतिते दत्तमन्यायोपहृतं च यत्। व्यर्थं तु पतिते दानं ब्राह्मणे तस्करे तथा
गुरौ चानृतिके पापे कृतघ्ने ग्रामयाजके। वेदविक्रयिणे दत्तं तथा वृषलयाजके
ब्रह्मबन्धुषु यद्दत्तं यद्दत्तं वृषलीपतौ। स्त्रीजितेषु च यद्दत्तं व्यालग्राहे तथैव च
परिचारकेषु यद्दत्तं वृथा दानानि षोडश। तमोवृतस्तु यो दद्याद्भयात्क्रोधात्तथैव च
भुङ्क्ते च दानं तत्सर्वं गर्भस्थस्तु नरः सदा। ददद्दानं द्विजातिभ्यो वृद्धभावेन मानवः
तस्मात्सर्वास्ववस्थासु सर्वदानानि पार्थिव। दातव्यानि द्विजातिभ्यः स्वर्गमार्गजिगीषया
चातुर्वर्ण्यस्य सर्वस्य वर्तमानाः प्रतिग्रहे। केन विप्रा विशेषेण तारयन्ति तरन्ति च
जपैर्मन्त्रैश्च होमैश्च स्वाध्यायाध्यायनेन च। नावं वेदमयीं कृत्वातारयन्ति तरन्ति च
ब्राह्मणांस्तोषयेद्यस्तु तुष्यन्ते तस्य देवताः। वचनाच्चापि विप्राणां स्वर्गलोकमवाप्नुयात्
अनन्तं पुण्यलोकं तु गन्ताऽसौ तु न संशयः। श्लेष्मादिभिर्व्याप्ततनुर्म्रियमाणोऽविचेतनः
ब्राह्णा एव संपूज्याः पुण्यं स्वर्गमभीप्सता। श्राद्धकाले तु यत्नेन भोक्तव्या ह्यजुगुप्सिताः
दुर्बलः कुनस्वी कुष्ठी मायावी कुण्डगोलकौ। वर्जनीयाः प्रयत्नेन काण्डपृष्ठाश्च देहिनः
जुगुप्सितं हि यच्छ्राद्धं दहत्यग्निरिवेन्धनम्
ये ये श्राद्धे न पूज्यन्ते मूकान्धबधिरादयः। तेऽपिसर्वे नियोक्तव्या मिश्रिता वेदपारगैः
प्रतिग्रहश्च वै देयः शृणु यस् युधिष्ठिर। प्रदातारं तथाऽऽत्मानं यस्तारयति शक्तिमान्