ददामि ते रोहिणीनां सहस्रं प्रियो हि मे ब्राह्मणो याचमानः। न मे मनः कुप्यति याचमाने दत्तं न शोचामि कदाचिदर्थम्
इत्युक्त्वा ब्राह्मणा राजा गोसहस्रं ददौ। प्राप्तवांश्च गवां सहस्रं ब्राह्मण इति
देवानां कथा संजाता महीतलं गत्वा महीपतिं शिबिमौशीनरं साध्वेनं शिबिं जिज्ञास्याम इति ।। एवं भो इत्युक्त्वा अग्नीन्द्रावुपतिष्ठेताम्
अग्निः कपोतरूपेण तमभ्यधावदामिषार्थमिन्द्रः श्येनरूपेण
अथ कपोतो राज्ञो दिव्यासनासीनस्योत्सङ्गं न्यपतत्
अथ पुरोहितो राजानमब्रवीत् ।। प्राणरक्षार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्यते
वसु ददातु अन्तवान्पार्थिवोऽस्य निष्कृतिं कुर्यात् घोरं कपोतस्य निपातमाहुः
अथ कपोतो राजानमब्रवीत् ।। प्राणरक्षणार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्ये अङ्गैरङ्गानि प्राप्यार्थी मुनिर्भूत्वा प्राणांस्त्वां प्रपद्ये
स्वाध्यायेन कर्शितं ब्रह्मचारिणं मां विद्धि ।। तपसा दमेन युक्तमाचार्यस्याप्रतिकूलभाषिणम् ।। एवंयुक्तमपापं मां विद्धि
गदामि वेदानविचिनोमि छन्दः सर्वेवेदा अक्षरशो मे अधीताः। न साधु दानं श्रोत्रियस्य प्रदानं मा प्रादाः श्येनाय न कपोतोऽस्मि
अथ श्येनो राजानमब्रवीत्
पर्यायेण वसतिर्वा भवेषु सर्गे जातः पूर्वमस्मात्कपोतात्। त्वमाददानोऽथ कपोतमेनं मा त्वं राजन्विघ्नकर्ता भवेथाः
केनेदृशी जातु परा हि दृष्टा वागुच्यमाना शकनेन संस्कृता। यां वै कपोतो वदते यां च श्येन उभौ विदित्वा कथमस्तु साधु
नास्य वर्षं वर्षति वर्षकाले नास्य बीजं रोहति काल उप्तम्। भीतं प्रपन्नं यो हि ददाति शत्रवे न त्राणं लभेत्राणमिच्छन्स काले
जाता ह्रस्वा प्रजा प्रमीयते सदा न वासं पितरोऽस्य कुर्वते। भीतं प्रपन्नं यो हि ददाति शत्रवे नास्य देवाः प्रतिगृह्णन्ति हव्यम्
मोघमन्नं विन्दति चाप्रचेताः स्वर्गाल्लोकाद्धश्यति शीघ्रमेव। भीतं प्रपन्नं यो हि ददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्
उक्षाणं पक्त्वा सह ओदनेन अस्मात्कपोतात्प्रति ते नयन्तु। यस्मिन्देशे रमसेऽतीव श्येन तत्रमांसं शिवयस्ते वहन्तु
नोक्षाणो राजन्प्रार्थयेयं न चान्य दस्मान्मांसमधिकं वा कपोतात्। देवैर्दत्तः सोऽद्य ममैष भक्ष- स्तन्मे ददस्व शकुनानामभावात्
उक्षाणं वेहतमनूनं नयन्तु ते पश्यन्तु पुरुषा ममैव। भयाहितस् दायं ममान्तिकात्त्वां प्रत्याम्नायं तु त्वं ह्येनं मा हिंसीः
त्यजे प्राणाननैव दद्यां कपोतं सौम्यो ह्ययं किं न जानासि श्येन। यथा क्लेशं मा कुरुष्वेह सौम्य नाहं कपोतमर्पयिष्ये कथंचित्
यथा मां वै साधुवादैः प्रसन्नाः प्रशंसेयुः शिबयः कर्मणा तु। यथा श्येन प्रियमेव कुर्यां प्रशाधि मां यद्वदेस्तत्करोमि
ऊरोर्दक्षिणादुत्कृत्य स्वपिशितं तावद्राजन्यावन्मांसं कपोतेन समम् ।। तथा तस्मात्साधु त्रातः कपोतः प्रशंसेयुश्च शिबय कृतं च प्रियं स्यान्ममेति
अथ स दक्षिणादूरोरुत्कृत्य स्वमांसपेशीं तुलयाधारयत् ।। गुरुतर एव कपोत आसीत्
पुनरन्यमुच्चकर्त गुरुतर एव कपोतः ।। एवं सर्वं समधिकृत्य शरीरं तुलायामारोपयामास रतत्तथापि गुरुतर एव कपोत आसीत्
अथ राजा स्वयमेव तुलामारुरोह ।। न च व्यलीकमासीद्राज्ञ एतद्वृत्तान्तं दृष्टाव त्रात इत्युक्त्वा प्रालीयत श्येनः अथ राजा अब्रवीत्
कपोतं विद्युः शिवयस्त्वां कपोत पृच्छामि ते शकुने को नु श्येनः। नानीश्वर ईदृशं जातु कुर्या- देतं प्रश्नं भगवन्मे विचक्ष्व
वैश्वानरोऽहं ज्वलनो धूमकेतु- रथैव श्येनो वज्रहस्तः शचीपतिः। साधु ज्ञातुं त्वामृषभं सौरथेय नौ जिज्ञासया त्वत्सकाशंप्रपन्नौ
यामेतां पेशीं मम निष्क्रयाय प्रादाद्भवानसिनोत्कृत्य राजन्। एतद्वो लक्ष्म शिवं करोमि हिरण्यवर्णं रुचिरं पुण्यगन्धम्
एतासां प्रजानां पालयिता यशस्वी सुरर्षीणामथ संमतो भृशम्। एतस्मात्पार्श्वात्पुरुषो जनिष्यति कपोतरोमेति च तस्य नाम
कपोतरोमाणं शिबिनौद्भिदं पुत्रं प्राप्स्यसि नृपवृषसंहननं यशोदीप्यमानं द्रष्टासि शूरमृषभं सौरथानाम्