श्ववद्धि लोलुपो यस्तु परान्नं भोक्तुमिच्छति। धिगस्तु तस्य तद्भुक्तं कृपणस् दुरात्मनः
यो दत्त्वाऽतिथिभृत्येभ्यः पितृभ्यश्च द्विजोत्तमः। शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः
अतो मृष्टतरं नान्यत्पूतं किंचितच्छतक्रतो। दत्त्वा यस्त्वतिथिभ्योऽन्नं भुङ्क्ते तेनैव नित्यशः
तावतां गोसहस्राणां फलं प्राप्नोति दायकः। यदेनो यौवनकृतंतत्सर्वं नश्यते ध्रुवम्
रसदक्षिणस् भुक्तस् द्विजस्य तु करे गतम्। यद्वारि वारिणा सिञ्चेत्तद्ध्येनस्तरते क्षणात्
एताश्चान्याश्च वै बह्वीः कथयित्वा कथाः शुभाः। बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः
इदमन्यच्छ्रूतां ययातिर्नाहुषो राजा राज्यस्थः पौरजनावृत आसांचक्रे ।। गुर्वर्थी ब्राह्मण उपेत्याब्रवीत् भो राजन्गुर्वर्थं भिक्षेयं समयादिति राजोवाच
ब्रवीतु भगवान्समयमिति
विद्वेषणं परमं जीवलोके कुर्यान्नरः पार्थिव याच्यमानः। तं त्वां पृच्छामि कथं तु राज- न्दद्याद्वान्दयितं च मेऽद्य
नचानुकीर्तये दद्य दत्त्वा अयाच्यमर्थं न च संशृणोमि। प्राप्यमर्थं च संश्रुत्य तं चापि दत्त्वा सुसुखी भवामि
ददामि ते रोहिणीनां सहस्रं प्रियो हि मे ब्राह्मणो याचमानः। न मे मनः कुप्यति याचमाने दत्तं न शोचामि कदाचिदर्थम्
इत्युक्त्वा ब्राह्मणा राजा गोसहस्रं ददौ। प्राप्तवांश्च गवां सहस्रं ब्राह्मण इति
देवानां कथा संजाता महीतलं गत्वा महीपतिं शिबिमौशीनरं साध्वेनं शिबिं जिज्ञास्याम इति ।। एवं भो इत्युक्त्वा अग्नीन्द्रावुपतिष्ठेताम्
अग्निः कपोतरूपेण तमभ्यधावदामिषार्थमिन्द्रः श्येनरूपेण
अथ कपोतो राज्ञो दिव्यासनासीनस्योत्सङ्गं न्यपतत्
अथ पुरोहितो राजानमब्रवीत् ।। प्राणरक्षार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्यते
वसु ददातु अन्तवान्पार्थिवोऽस्य निष्कृतिं कुर्यात् घोरं कपोतस्य निपातमाहुः
अथ कपोतो राजानमब्रवीत् ।। प्राणरक्षणार्थं श्येनाद्भीतो भवन्तं प्राणार्थी प्रपद्ये अङ्गैरङ्गानि प्राप्यार्थी मुनिर्भूत्वा प्राणांस्त्वां प्रपद्ये
स्वाध्यायेन कर्शितं ब्रह्मचारिणं मां विद्धि ।। तपसा दमेन युक्तमाचार्यस्याप्रतिकूलभाषिणम् ।। एवंयुक्तमपापं मां विद्धि
गदामि वेदानविचिनोमि छन्दः सर्वेवेदा अक्षरशो मे अधीताः। न साधु दानं श्रोत्रियस्य प्रदानं मा प्रादाः श्येनाय न कपोतोऽस्मि
अथ श्येनो राजानमब्रवीत्
पर्यायेण वसतिर्वा भवेषु सर्गे जातः पूर्वमस्मात्कपोतात्। त्वमाददानोऽथ कपोतमेनं मा त्वं राजन्विघ्नकर्ता भवेथाः
केनेदृशी जातु परा हि दृष्टा वागुच्यमाना शकनेन संस्कृता। यां वै कपोतो वदते यां च श्येन उभौ विदित्वा कथमस्तु साधु
नास्य वर्षं वर्षति वर्षकाले नास्य बीजं रोहति काल उप्तम्। भीतं प्रपन्नं यो हि ददाति शत्रवे न त्राणं लभेत्राणमिच्छन्स काले
जाता ह्रस्वा प्रजा प्रमीयते सदा न वासं पितरोऽस्य कुर्वते। भीतं प्रपन्नं यो हि ददाति शत्रवे नास्य देवाः प्रतिगृह्णन्ति हव्यम्
मोघमन्नं विन्दति चाप्रचेताः स्वर्गाल्लोकाद्धश्यति शीघ्रमेव। भीतं प्रपन्नं यो हि ददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम्
उक्षाणं पक्त्वा सह ओदनेन अस्मात्कपोतात्प्रति ते नयन्तु। यस्मिन्देशे रमसेऽतीव श्येन तत्रमांसं शिवयस्ते वहन्तु
नोक्षाणो राजन्प्रार्थयेयं न चान्य दस्मान्मांसमधिकं वा कपोतात्। देवैर्दत्तः सोऽद्य ममैष भक्ष- स्तन्मे ददस्व शकुनानामभावात्
उक्षाणं वेहतमनूनं नयन्तु ते पश्यन्तु पुरुषा ममैव। भयाहितस् दायं ममान्तिकात्त्वां प्रत्याम्नायं तु त्वं ह्येनं मा हिंसीः
त्यजे प्राणाननैव दद्यां कपोतं सौम्यो ह्ययं किं न जानासि श्येन। यथा क्लेशं मा कुरुष्वेह सौम्य नाहं कपोतमर्पयिष्ये कथंचित्