नगराणि समृद्धानि घेटाञ्जनपदांस्तथा। प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः
उदपानं प्रपा वापी तटाकानि सरांसि च। नानाब्रह्रह्मसमाचारैः सेवितानि द्विजोततमैः
ततोऽवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः। तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले
पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप। तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम्। तत्राश्रमपदे रम्ये बकं पश्यति देवराट्
बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाऽभवत्। पाद्यासनार्थदानेन फलमूलैरथार्चयत्
सुखोपविष्टो वरदस्ततस्तु बलसूदनः। ततः प्रश्नं बकं देवं उवाच त्रिदशेश्वरः
शतं वर्षसहस्राणि मुने जातस्य तेऽनघ। समाख्याहि मम ब्रह्मन्किं दुःखं चिरजीविनाम्
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः। असद्भिः संप्रयोगश्च तद्दुःखं चिरजीविनाम्
पुत्रदारविनाशोऽत्र ज्ञातीनां सुहृदामपि। परेष्वायत्तता कृच्छ्रं किंनु दुःखतरं ततः
नान्यद्दुःखतरं किंचिल्लोकेषु प्रतिभाति मे। अर्थैर्विहीनः पुरुषः एरैः संपरिभूयते
अकुलानां कुले भावं कुलीनानां कुलक्षयम्। संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः
अपिप्रत्यक्षमेवैतत्तव देघ शतक्रतो। अकुलानां समृद्धानां कथं कुलविपर्ययः
देवदानवगन्धर्वमनुष्योरगराक्षसाः। प्राप्नुवन्ति विपर्यासं किंनु दुःखतरं ततः
कुले जाताश् क्लिश्यन्ते दौष्कुलेयवशानुगाः। आढ्यैर्दरिद्राऽवमताः किंनु दुःखतरं ततः
लोके वैधर्म्यमेतत्तु दृश्ते बहुविस्तरम्। हीनज्ञानाश्च हृष्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः। बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते
पुनरेव महाभाग देवर्षिगणसेवित। समाख्याहि मम ब्रह्मन्किं सुखं चिरजीविनाम्
अष्टमे द्वादशे वाऽपि शाकं यः पचते गृहे। कुमित्राण्यनपाश्रित् किं वै सुखतरं ततः
यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम्। अपि शाकं पचानस्य सुखं वै मघवन्गृहे
आर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कंचन। फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे
परस्य तु गृहे भोक्तुः परिभूतस् नित्यशः। सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सताम्
श्ववद्धि लोलुपो यस्तु परान्नं भोक्तुमिच्छति। धिगस्तु तस्य तद्भुक्तं कृपणस् दुरात्मनः
यो दत्त्वाऽतिथिभृत्येभ्यः पितृभ्यश्च द्विजोत्तमः। शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः
अतो मृष्टतरं नान्यत्पूतं किंचितच्छतक्रतो। दत्त्वा यस्त्वतिथिभ्योऽन्नं भुङ्क्ते तेनैव नित्यशः
तावतां गोसहस्राणां फलं प्राप्नोति दायकः। यदेनो यौवनकृतंतत्सर्वं नश्यते ध्रुवम्
रसदक्षिणस् भुक्तस् द्विजस्य तु करे गतम्। यद्वारि वारिणा सिञ्चेत्तद्ध्येनस्तरते क्षणात्
एताश्चान्याश्च वै बह्वीः कथयित्वा कथाः शुभाः। बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः
इदमन्यच्छ्रूतां ययातिर्नाहुषो राजा राज्यस्थः पौरजनावृत आसांचक्रे ।। गुर्वर्थी ब्राह्मण उपेत्याब्रवीत् भो राजन्गुर्वर्थं भिक्षेयं समयादिति राजोवाच
ब्रवीतु भगवान्समयमिति
विद्वेषणं परमं जीवलोके कुर्यान्नरः पार्थिव याच्यमानः। तं त्वां पृच्छामि कथं तु राज- न्दद्याद्वान्दयितं च मेऽद्य
नचानुकीर्तये दद्य दत्त्वा अयाच्यमर्थं न च संशृणोमि। प्राप्यमर्थं च संश्रुत्य तं चापि दत्त्वा सुसुखी भवामि