चर धर्मं त्यजाधर्मं पितॄन्पूर्वाननुस्मर। प्रमादाद्यत्कृतं तेऽभूत्सम्यग्ज्ञानेन तज्जय
अलं ते मानमाश्रित्य सततं प्रियवाग्भव। विजित्य पृथिवीं सर्वां मोदमानः सुखी भव
एष भूतो भविष्यश्च धर्मस्ते समुदीरितः। न तेऽस्त्यविदितं किंचिदतीतानागतं भुवि
तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः। प्राज्ञास्तात न मुह्यन्ति कालेनापि प्रपीडिताः
एष कालो महाबाहो अपि सर्वदिबौकसाम्। मुह्यन्ति हि प्रजास्तात कालेनापि प्रचोदिताः
मा च तेऽत्र विशङ्का भूद्यन्मयोक्तं तवानघ। अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव
जातोसि प्रथिते वंशे कुरूणां भरतर्षभ। कर्मणा मनसा वाचा सर्वमेतत्समाचर
यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम्। तथा करिष्ये यत्नेन भवतः शासनं विभो
न मे लोभोस्ति विप्रेन्द्रन भयं न च मत्सरः। करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो
श्रुत्वा तु वचनं तस्य पाण्डवस्य यशस्विनः। संहृष्टः पाण्डवा राजन्सहिता शार्ङ्गधन्वना
विप्र्रषभाश्च ते सर्वे ये तत्रासन्समागताः। तथा कथां शुभां श्रुत्वा रमार्कण्डेयस्य धमतः। विस्मिता समपद्यन्त पुराणस् निवेदनात्
मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च। पर्यपृच्छन्नृषिः केन दीर्घायुरासीद्बकः
मार्कण्डेयस्तु तान्सर्वान्प्रत्युवाच महातपाः। दीर्घायुश्च बकोराजन्नृषिर्नात्र विचारणा
एतच्छ्रुत्वा तु कौन्तेयो भ्रातृभिः सह भारत। मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः
बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ। सखायौ देवराजस् यतावृषी लोकसंमतौ
एतदिच्छामि भगवन्बकशक्रसमागमम्। सुखदुःखसमायुक्तं तत्त्वेन कथितं त्वया
वृत्ते देवासुरे राजन्संग्रामे रोमहर्षणे। त्रयाणामपि लोकानामिन्द्रो लोकाधिपोऽभवत्
सम्यग्वर्षति पर्जन्ये सस्यसंपद उत्तमाः। निरामयाः सुधर्मिष्ठाः प्रजा धर्मपरायणाः। मुदितश्च जनः सर्वः स्वधर्मेषु व्यवस्थितः
ताः प्रजा मुदिताः सर्वा दृष्ट्रा बलनिषूदनः। ततस्तु मुदितोराजन्देवराजः शतक्रतुः
ऐरावतं समास्थाय अपश्यन्मुदिताः प्रजाः। आश्रमांश्च विचित्रांश् नदीश्च विविधाः शुभाः
नगराणि समृद्धानि घेटाञ्जनपदांस्तथा। प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः
उदपानं प्रपा वापी तटाकानि सरांसि च। नानाब्रह्रह्मसमाचारैः सेवितानि द्विजोततमैः
ततोऽवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः। तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले
पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप। तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम्। तत्राश्रमपदे रम्ये बकं पश्यति देवराट्
बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाऽभवत्। पाद्यासनार्थदानेन फलमूलैरथार्चयत्
सुखोपविष्टो वरदस्ततस्तु बलसूदनः। ततः प्रश्नं बकं देवं उवाच त्रिदशेश्वरः
शतं वर्षसहस्राणि मुने जातस्य तेऽनघ। समाख्याहि मम ब्रह्मन्किं दुःखं चिरजीविनाम्
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः। असद्भिः संप्रयोगश्च तद्दुःखं चिरजीविनाम्
पुत्रदारविनाशोऽत्र ज्ञातीनां सुहृदामपि। परेष्वायत्तता कृच्छ्रं किंनु दुःखतरं ततः
नान्यद्दुःखतरं किंचिल्लोकेषु प्रतिभाति मे। अर्थैर्विहीनः पुरुषः एरैः संपरिभूयते