वासाय स्वाण्डवप्रस्थं व्रजध्वं गतमत्सराः। तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः
नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः। तत्र ते न्यवसन्पार्थाः संवत्सरगणांन्बहून्
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः। एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः
अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितान्बहून्। अजयद्भीमसेनस्तु दिशं प्राचीं महायशाः
उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा। दक्षिणां सहदेवस्तु विजिग्ये परवीरहा
एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम्। पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता
षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः। ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः
वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः। प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम्
अर्जुनं पुरुषव्याघ्रं स्थिरात्मानं गुणैर्युतम्। स वै संवत्सरं पूर्णं मासं चैकं वने वसन्
तीर्थयात्रां च कृतवान्नागकन्यामवाप च। पाण्ड्यस्य तनयां लब्ध्वा तत्र ताभ्यांसहोषितः
ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन। लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्। सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता
सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह। अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम्
बीभत्सुर्वासुदेवेन सहितो नृपस्तम। नातिभारो हि पार्थस्य केशवेन सहाभवत्
व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव। पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्
इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्। मोक्षयामास बीभत्सुर्मयं यत्र महासुरम्
स चकार सभां दिव्यां सर्वरत्नसमाचिताम्। तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्। वनं प्रस्थापयामास सप्तवर्षाणि पञ्च च
अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम्। ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु
नालभन्त महाराज ततो युद्धमवर्तत। ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम्
राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः। `इष्ट्वा क्रतूंश्च विविधानश्वमेधादिकान्बहून्
धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते। गमयित्वा क्रियां स्वर्ग्यां राज्ञाममिततेजसाम्
स्वं धाम याते वार्ष्णेये कृष्णदारान्प्ररक्ष्य च। महाप्रस्थानिकं कृत्वा गताः स्वर्गमनुत्तमम्
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्। भेदो राज्यविनाशश्च जयश्च जयतांवर
कथितं वै समासेन त्वया सर्वं द्विजोत्तम। महाभारतमाख्यानं कुरूणां चरितं महत्
कथां त्वनघ चित्रार्थां कथयस्व तपोधन। विस्तरश्रवणे जातं कौतूहलमतीव मे
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्
न तत्कारणमल्पं वै धर्मज्ञा यत्र पाण्डवाः। अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः। प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम्
कथं नागायुतप्राणो बाहुशाली वृकोदरः। परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम