कल्की विष्णुयशा नाम द्विजः कालप्रचोदितः। उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः
संभूतः संभलग्रामे ब्राह्मणावसथे शुभे। `महात्मा वृत्तसंपन्नः प्रजानां हितकृन्नृप
मनसा तस्य सर्वाणि वाहनान्यायुधानि च। उपस्तास्यन्ति योधाश्च शस्त्राणि कवचानि च
स धर्मविजयी राजा चक्रवर्ती भविष्यति। सचेमं संकुलं लोकं प्रसादमुपनेष्यति
उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः। संक्षेपको हि सर्वस्य युगस्य परिवर्तकः
स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः। उत्सादयिष्यति तदा सर्वम्लेच्छगणान्द्विजः
ततश्चोरक्षयंकृत्वाद्विजेभ्यः पृथिवीमिमाम्। वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति
स्थापयित्वा च मर्यादाः स्वयंभुविहिताः शुभाः। पुनः पुण्ययशःकर्म जरया संश्रयिष्यति
तच्छीलमनुवर्स्यन्ति मनुष्या लोकवासिनः। विप्रैश्चोरक्षये चैव कृतेक्षेमं भविष्यति
कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च। स्थापयन्द्विजशार्दूलो देशेषु विजितेषु च
संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान्। कल्कीचरिष्यति महीं सदा दस्युवधे रतः
हा मातस्तात पुत्रेति तास्ता वाचः सुदारुणाः। विक्रोशमानान्सुभृशं दस्यूननेष्यति संक्षयम्
ततोऽधऱ्मविनाशो वै धर्मवृद्धिश्च भारत। भविष्यति कृतेप्राप्ते क्रियावांश्च जनस्तथा
आरामाश्चैव चैत्याश्च तटाकावसथास्तथा। पुष्करिण्यश्च विविधा देवतायतनानि च
यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे। ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः
आश्रमा हतपाषण्डाः स्थिताः सत्ये जनास्तदा। जायन्ति सर्वभूतानि शुध्यमानानि चैव हि
सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति। नरा दानेषु निरता व्रतेषु नियमेषु च
जपयज्ञपरा विप्रा धर्मकामा मुदा युताः। पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम्
व्यवहाररता वैश्या भविष्यन्ति कृते युगे। षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः
शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च। एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा
पश्चिमे युगकाले च यः स ते संप्रकीर्तितः। सर्वलोकस् विदिता युगसह्ख्या च पाण्डव
एतत्ते सर्वमाख्यातमतीतानागतं मया। वायुप्रोक्तमनुस्मृत्यपुराणमृषिसंस्तुतम्
एवं संसारमार्गा मे बहुशश्चिरजीविनः। दृष्टाश्चैवानुभूताश्च किं भूयः श्रोतुमिच्छसि
इदं चैवापरं भूयः सह भ्रातृभिरच्युत। धर्मसंशयमोक्षार्थं निबोध वचनं मम
न तेऽन्यथाऽत्र विज्ञेयो धर्मो धर्मभृतांवर। धर्मात्मा हि सुखं राजन्प्रेत्य चेह च नन्दति
न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन। ब्राह्मणः कुपितोऽहन्यादपि लोकान्प्रतिज्ञया
मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः। उवाच वचनं धीमान्परमं परमद्युतिः
एतच्छ्रुत्वा मया किं स्यात्कर्तव्यं मुनिसत्तम। कथं चायं जितोलोको रक्षितव्यो भविष्यति
कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने। कथंच वर्तमानो वै न च्यवेयं स्वधर्मतः
दयावान्सर्वबूतेषु हितो रक्तोऽनसूयकः। उपत्यानामिव स्नेहात्प्रजानां रक्षणे रतः