पानीयं भोजनं चापि याचमानास्तदाऽध्वगाः। न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते
निर्घातवायसा नागाः शकुनाः समृगद्विजाः। रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते
मित्रसंबन्धिनश्चापि संत्यक्ष्यनति नरास्तदा। जनं परिजनं चापि यागान्ते पर्युपस्थिते
अथ देशान्दिशश्चापि पत्तनान्यापणानि च। क्रमशः संलयिष्यन्ति युगान्ते पर्युपस्थिते
हा तात हा सुतेत्येवं तदा वाच सुदारुणाः। विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति
मोवादिनस्तथा शूद्रा ब्राह्मणाः प्राकृतप्रियाः। पाषण्डजनसंकीर्णा भविष्यन्ति युगक्षये
ततस्तुमुलसंघाते वर्तमाने युगक्षये। द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति
ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये। भविष्यति पुनर्दैवमनुकूलं यदृच्छया
यदा सूर्यश्च चन्द्रश्च तथा तिष्यबृहस्पती। एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम्
कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च। प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः। क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम्
कल्की विष्णुयशा नाम द्विजः कालप्रचोदितः। उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः
संभूतः संभलग्रामे ब्राह्मणावसथे शुभे। `महात्मा वृत्तसंपन्नः प्रजानां हितकृन्नृप
मनसा तस्य सर्वाणि वाहनान्यायुधानि च। उपस्तास्यन्ति योधाश्च शस्त्राणि कवचानि च
स धर्मविजयी राजा चक्रवर्ती भविष्यति। सचेमं संकुलं लोकं प्रसादमुपनेष्यति
उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः। संक्षेपको हि सर्वस्य युगस्य परिवर्तकः
स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः। उत्सादयिष्यति तदा सर्वम्लेच्छगणान्द्विजः
ततश्चोरक्षयंकृत्वाद्विजेभ्यः पृथिवीमिमाम्। वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति
स्थापयित्वा च मर्यादाः स्वयंभुविहिताः शुभाः। पुनः पुण्ययशःकर्म जरया संश्रयिष्यति
तच्छीलमनुवर्स्यन्ति मनुष्या लोकवासिनः। विप्रैश्चोरक्षये चैव कृतेक्षेमं भविष्यति
कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च। स्थापयन्द्विजशार्दूलो देशेषु विजितेषु च
संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान्। कल्कीचरिष्यति महीं सदा दस्युवधे रतः
हा मातस्तात पुत्रेति तास्ता वाचः सुदारुणाः। विक्रोशमानान्सुभृशं दस्यूननेष्यति संक्षयम्
ततोऽधऱ्मविनाशो वै धर्मवृद्धिश्च भारत। भविष्यति कृतेप्राप्ते क्रियावांश्च जनस्तथा
आरामाश्चैव चैत्याश्च तटाकावसथास्तथा। पुष्करिण्यश्च विविधा देवतायतनानि च
यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे। ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः
आश्रमा हतपाषण्डाः स्थिताः सत्ये जनास्तदा। जायन्ति सर्वभूतानि शुध्यमानानि चैव हि
सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति। नरा दानेषु निरता व्रतेषु नियमेषु च
जपयज्ञपरा विप्रा धर्मकामा मुदा युताः। पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम्
व्यवहाररता वैश्या भविष्यन्ति कृते युगे। षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः
शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च। एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा