म्लेच्छाचाराः सर्वमभक्षा दारुणा सर्वकर्मसु। भाविन पश्चिमे काले मनुष्या नात्र संशयः
क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम्। युगान्ते भरतश्रेष्ठ वित्तलोभात्करिष्यति
ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा। आत्मच्छन्देन वर्तन्ते युगान्ते समुपस्थिते
स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशंसिनः। भवितारो जनाः सर्वे संप्राप्ते तु युगक्षये
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः। भविता संशयो लोके जीवितस्य हि देहिनाम्
तथा लोभाभिभूताश्च भविष्यन्ति नरा नृप। ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः
हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः। त्रातारमलाभन्तो वै भ्रमिष्यनति महीमिमाम्
जीवितान्तकराः क्रूरा रौद्राः प्राणिविहिंसकाः। यदा भविष्यन्ति नरास्तदा संक्षेप्स्यते युगम्
आश्रयिष्यन्ति च नदी पर्वतान्विषमाणि च। प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह
दस्युभिः पीडिता राजन्काका इव द्विजोत्तमाः। कुराजभिश्च सततं करभारप्रपीडिताः
धैर्यं त्यक्त्वा महीपाल दारुणे युगसंक्षये। विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः
शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः। श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः
विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः। एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः। शूद्राश्च प्रभविष्यन्ति न द्विजा युगसंक्षये
आश्रमेषुमहर्षीणां ब्राह्मणावसथेषु च। देवस्थानेषु चैत्येषु नागानामालयेषु च
एडूकचिह्ना पृथिवी न देवगृहभूषिता। भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम्
दा रौद्रा धर्महीना मांसादाः पानपास्तथा। भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम्
पुष्पं पुष्पे यदा राजन्फले वा फलमाश्रितम्। प्रजास्यति महाराज तदा संक्षेप्स्यते युगम्
अकालवर्षी पर्जन्यो भविष्यति गते युगे। अक्रमेण मनुष्याणां भविष्यनति तदा क्रियाः
विरोधमथ यास्यनति वृषला ब्राह्मणैः सह। मही म्लेच्छजनाकीर्णा भविष्यति ततोऽचिरात्
करभारभयाद्विप्रा भजिष्यन्ति दिशो दश। `अन्यायवर्तिनश्चापि भविष्यनति नराधिपाः
निर्विशेषा जनपदास्तथा विष्टिकरार्दिताः। आश्रमानुपलप्स्यन्ति फलमूलोपजीविनः
एवं पर्याकुले लोके मर्यादा न भविष्यति। `ब्राह्मणःक्षत्रियावैश्याः परित्यक्ष्यन्ति सत्क्रियाम्' न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः
आचार्योपनिधिश्चैव भर्त्स्यते तदनन्तरम्। अर्थयुक्त्या प्रवात्स्यन्ति मित्रसंबन्धिबान्धवाः
अभावः सर्वभूतानां युगान्ते संभविष्यति। दिशः प्रज्वलिता सर्वा नक्षत्राण्यप्रभाणि च
प्रधूपितानि ज्योतींषि वाताः पर्याकुलास्तथा। उल्कापाताश्च बहवो महाभयनिदर्शकाः
षङ्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति। तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः। कबन्धान्तर्हितो भानुरुदयास्तमने तदा
अकालवर्षी भगवान्भविष्यति सहस्रदृक्। सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते
अभीक्ष्णं क्रूरवादिन्यः परुषा रदितप्रियाः। भर्तॄणां वचने चैव न स्थास्यन्ति ततः स्त्रियः
पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये। सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः
अपर्वणि महाराज सूर्यं राहुरुपैष्यति। युगान्ते हुतभुक्वापि सर्वतः प्रज्वलिष्यति