परस्परवधोयुक्ता मूर्खाः पण्डितमानिनः। भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः
अरक्षितारो लुब्धाश् मानाहंकारदर्पिताः। केवलं दण्डरुचयो भविष्यन्ति युगक्षये
आक्रम्याक्रम्य साधूनां दारांश्चापि धनानि च। भोक्ष्यन्ते निरनुक्रोसा रुदतामपि भारत
न कन्यां याचे कश्चिन्नापि कन्या प्रदीयते। स्वयंग्रहा भविष्यन्ति युगान्ते समुपस्थिते
राजानश्चाप्यसंतुष्टाः परार्तान्मूढचेतसः। सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते
म्लेच्छीभूतं जगत्सर्वं भविष्यति न संशयः। हस्तो हस्तं परिमुषेद्युगान्ते समुपस्थिते
सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः। स्थविरा बालमतयो बालाः स्थविरबुद्धयः
भीरुस्था शूरमानी शूरा भीरुविषादिनः। न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते
नैकभार्यं जगत्सर्वं लोभमोहव्यवस्थितम्। अधर्मो वर्धते तत्र न तु धर्मः प्रवर्तते
ब्राह्मणाः क्षत्रिया वैश्या नशिष्यन्ति जनाधिप। एकवर्णस्तदा लोको भविष्यति युगक्षये
न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा। भार्याश्च पतिशुश्रूषां न करिष्यन्ति संक्षये
ये यवान्ना जनपदा गोधूमान्नास्तथैव च। तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते
स्वैराहाराश्च पुरुषा योषितश्च विशांपते। अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते
म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर। श्राद्धे न देवान्न पितॄँस्तर्पयिष्यन्ति मानवाः
न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः। तमोग्रस्तस्तदा लोको भविष्यति जनाधिप
परमायुश्च भविता तदा वर्षाणि षोडश। ततः प्राणान्विमोक्ष्यन्ति युगान्ते समुपस्थिते
पञ्चमे वाऽथ षष्ठे वा वर्षे कन्या प्रसूयते। सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा
पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति। युगान्ते राजशार्दूल न तोषमुपयास्यति
अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति। न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः। केशशूलाः स्त्रियश्चापि भविष्यनति युगक्षये
म्लेच्छाचाराः सर्वमभक्षा दारुणा सर्वकर्मसु। भाविन पश्चिमे काले मनुष्या नात्र संशयः
क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम्। युगान्ते भरतश्रेष्ठ वित्तलोभात्करिष्यति
ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा। आत्मच्छन्देन वर्तन्ते युगान्ते समुपस्थिते
स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशंसिनः। भवितारो जनाः सर्वे संप्राप्ते तु युगक्षये
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः। भविता संशयो लोके जीवितस्य हि देहिनाम्
तथा लोभाभिभूताश्च भविष्यन्ति नरा नृप। ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः
हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः। त्रातारमलाभन्तो वै भ्रमिष्यनति महीमिमाम्
जीवितान्तकराः क्रूरा रौद्राः प्राणिविहिंसकाः। यदा भविष्यन्ति नरास्तदा संक्षेप्स्यते युगम्
आश्रयिष्यन्ति च नदी पर्वतान्विषमाणि च। प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह
दस्युभिः पीडिता राजन्काका इव द्विजोत्तमाः। कुराजभिश्च सततं करभारप्रपीडिताः