मनुष्याणआमनुयुगं ह्रप्तन्तीति निबोध मे। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव युधिष्ठिर
व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः। सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः
सत्यहान्या ततस्तेषामायुरल्पं भविष्यति। आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम्
विद्याहीनानविज्ञानाल्लोभोप्यभिभविष्यति। लोभमोहपरा मूढाः कामासक्ताश् मानवाः
वैरबद्धा भविष्यन्ति परस्परवधैषिणः। ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्ते परस्परम्
शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः। अन्त्या मध्या भविष्यन्ति मध्याश्चान्त्या न संशयः
ईदृशो भविता लोको युगान्ते पर्युपस्थिते। वस्त्राणां प्रवरा शाणी धान्यानां कोरदूपकः
भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये। मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम्
गोषु नष्टासु पुरुषा येऽपि नित्यं धृतव्रताः। तेऽपिलोभसमायुक्ता भविष्यन्ति युगक्षये
अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः। अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये
सरित्तीरेषु कुद्दालैर्वापयिष्यनति चौपधीः। ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये
श्राद्धे दैवे च पुरुषा येऽपि नित्यं धृव्रताः। तेऽपिलोभसमायुक्ता भोक्ष्यन्तीह परस्परम्
पिता पुत्रस् भोक्ता च पितुः पुत्रस्तथैव च। अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः। न यक्ष्यन्ति न होष्यन्ति हेतुवादविमोहिताः। निम्नेष्वीहां करिष्यनति हेतुवादविमोहिताः
निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुक्राः। एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः
पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा। `स्त्रियोऽपि पतिपुत्रादीन्वधिष्यनति युगक्षये'। निरुद्वेगो बृहद्बादी न निन्दामुपलप्स्यते
म्लेच्छभूतं जगत्सर्वं निष्क्रियं दानवर्जितम्। भविष्यति निरानन्दमनुत्सवमथो तथा
प्रायशः कृपणानां हि तथा बन्धुमतामपि। विधवानां च वित्तानि हरिष्यन्तीह मानवाः
स्वल्पवीर्यबलाः स्वाधा लोभमोहपरायणाः। तत्कथादानसंतुष्ट शिष्टानामपि बान्धवाः
परिग्रहंकरिष्यति मायाचारपरिग्रहाः। संघातयन्तः तय राजानः पापबुद्धयः
परस्परवधोयुक्ता मूर्खाः पण्डितमानिनः। भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः
अरक्षितारो लुब्धाश् मानाहंकारदर्पिताः। केवलं दण्डरुचयो भविष्यन्ति युगक्षये
आक्रम्याक्रम्य साधूनां दारांश्चापि धनानि च। भोक्ष्यन्ते निरनुक्रोसा रुदतामपि भारत
न कन्यां याचे कश्चिन्नापि कन्या प्रदीयते। स्वयंग्रहा भविष्यन्ति युगान्ते समुपस्थिते
राजानश्चाप्यसंतुष्टाः परार्तान्मूढचेतसः। सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते
म्लेच्छीभूतं जगत्सर्वं भविष्यति न संशयः। हस्तो हस्तं परिमुषेद्युगान्ते समुपस्थिते
सत्यं संक्षिप्यते लोके नरैः पण्डितमानिभिः। स्थविरा बालमतयो बालाः स्थविरबुद्धयः
भीरुस्था शूरमानी शूरा भीरुविषादिनः। न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते
नैकभार्यं जगत्सर्वं लोभमोहव्यवस्थितम्। अधर्मो वर्धते तत्र न तु धर्मः प्रवर्तते
ब्राह्मणाः क्षत्रिया वैश्या नशिष्यन्ति जनाधिप। एकवर्णस्तदा लोको भविष्यति युगक्षये