यः स देवो मया दृष्टः पुरा पद्मायतेक्षणः। स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः
अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम्। दीर्गमायुश्च कौन्तेय स्वच्छन्दमरणं मम
स एष कृष्णो वार्ष्णेय पुराणपुरुषो विभुः। आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः
एष धाता विधाता च संहर्ता चैव शाश्वतः। श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः
दृष्ट्वेमं वृष्णिप्रवरं स्मृतिर्मामियमागता। आदिदेवमयं जिष्णुं पुरुषं पीतवाससम्
सर्वेषामेव भूतानां पिता माता च माधवः। गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः
एवमुक्तास्च ते पार्ता यमौ च पुरुषर्षभौ। द्रौपद्या सहिताः सर्वे नमश्चक्रुर्जनार्दनम्
स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना। सान्त्वयामास मानार्हो मन्यमानो यथाविधि
युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम्। पुन- पप्रच्छ सामात्यो भविष्यां जगतो गतिम्
आश्चर्यभूतं भवतः श्रुतं नो वदतांवर। मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ
अस्मिन्कलियुगे त्वस्ति पुनः कौतूहलं मम। समाकुलेषु धर्मेषु किंनु शेषं भविष्यति
किंवीर्या मानवास्तत्रकिमाहारविहारिणः। किमायुषः किंवसना भविष्यन्ति युगक्षये
कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम्। विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे
इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत। रमयन्वृष्णिशार्दूलं पाण्डवांस्च महानृषिः
शृणु राजन्मया दृष्टं यत्पुरा श्रुतमेव च। अनुभूतं च राजेनद्रदेवदेवप्रसादजम्
भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ। कलुषं कालमासाद्य कथ्यमानं निबोध मे
कृते चतुष्पात्सकलो निर्व्याजोप्राधिवर्जितः। वृषः प्रतिष्ठितो धर्मो मनुष्ये भरतर्षभ
अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः। त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते
त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति। तामसं युगमासाद्य तदा भरतसत्तम
चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति। आयुर्वीर्यं मनो बुद्धिर्बलं तेजश्च पाण्डव
मनुष्याणआमनुयुगं ह्रप्तन्तीति निबोध मे। ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव युधिष्ठिर
व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः। सत्यं संक्षेप्स्यते लोके नरैः पण्डितमानिभिः
सत्यहान्या ततस्तेषामायुरल्पं भविष्यति। आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम्
विद्याहीनानविज्ञानाल्लोभोप्यभिभविष्यति। लोभमोहपरा मूढाः कामासक्ताश् मानवाः
वैरबद्धा भविष्यन्ति परस्परवधैषिणः। ब्राह्मणाः क्षत्रिया वैश्याः संकीर्यन्ते परस्परम्
शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः। अन्त्या मध्या भविष्यन्ति मध्याश्चान्त्या न संशयः
ईदृशो भविता लोको युगान्ते पर्युपस्थिते। वस्त्राणां प्रवरा शाणी धान्यानां कोरदूपकः
भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये। मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम्
गोषु नष्टासु पुरुषा येऽपि नित्यं धृतव्रताः। तेऽपिलोभसमायुक्ता भविष्यन्ति युगक्षये
अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः। अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये