एवं सर्वमहं कालमिहासे मुनिसत्तम। अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते
मया च दत्तो विप्राग्र्य वरस्ते ब्रह्मरूपिणा। असकृत्परितष्टेन विप्रर्षिगणपूजित
सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम्। विक्लबोसि मया ज्ञातस्ततस्ते दर्शितं जगत्
अभ्यन्तरं शरीरस्य प्रविष्टोसि यदा मम। दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे
ततोसि वक्राद्विप्रर्षे द्रुतं निःसारितो मया। आख्यातस्ते मया चात्मा दुर्ज्ञे योपि सुरासुरैः
यावत्स भगवान्ब्रह्मा न बुध्येत महातपाः। तावत्त्वमिह विप्रर्षे विस्रब्धश्चर वै सुखम्
ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे। एकीभूतः प्रवेक्ष्यामि शरीराणि द्विजोत्तम
आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च। लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम्
इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः। प्रजाश्चेमाः प्रपश्यामि विचित्रा विविधाः कृताः
एवं दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये। आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतांवरः
यः स देवो मया दृष्टः पुरा पद्मायतेक्षणः। स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः
अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम्। दीर्गमायुश्च कौन्तेय स्वच्छन्दमरणं मम
स एष कृष्णो वार्ष्णेय पुराणपुरुषो विभुः। आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः
एष धाता विधाता च संहर्ता चैव शाश्वतः। श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः
दृष्ट्वेमं वृष्णिप्रवरं स्मृतिर्मामियमागता। आदिदेवमयं जिष्णुं पुरुषं पीतवाससम्
सर्वेषामेव भूतानां पिता माता च माधवः। गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः
एवमुक्तास्च ते पार्ता यमौ च पुरुषर्षभौ। द्रौपद्या सहिताः सर्वे नमश्चक्रुर्जनार्दनम्
स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना। सान्त्वयामास मानार्हो मन्यमानो यथाविधि
युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम्। पुन- पप्रच्छ सामात्यो भविष्यां जगतो गतिम्
आश्चर्यभूतं भवतः श्रुतं नो वदतांवर। मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ
अस्मिन्कलियुगे त्वस्ति पुनः कौतूहलं मम। समाकुलेषु धर्मेषु किंनु शेषं भविष्यति
किंवीर्या मानवास्तत्रकिमाहारविहारिणः। किमायुषः किंवसना भविष्यन्ति युगक्षये
कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम्। विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे
इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत। रमयन्वृष्णिशार्दूलं पाण्डवांस्च महानृषिः
शृणु राजन्मया दृष्टं यत्पुरा श्रुतमेव च। अनुभूतं च राजेनद्रदेवदेवप्रसादजम्
भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ। कलुषं कालमासाद्य कथ्यमानं निबोध मे
कृते चतुष्पात्सकलो निर्व्याजोप्राधिवर्जितः। वृषः प्रतिष्ठितो धर्मो मनुष्ये भरतर्षभ
अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः। त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते
त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति। तामसं युगमासाद्य तदा भरतसत्तम
चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति। आयुर्वीर्यं मनो बुद्धिर्बलं तेजश्च पाण्डव