वाराहं रूपमास्थाय मयेयं जगती पुरा। मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता
अग्निश्च बडबावक्रे भूत्वाऽहं द्विजसत्तम। पिबाम्यापः सदा विद्वंस्ताश्चैव विसृजाम्यहम्
ब्रह्म वक्रं भुजौ क्षत्रमूरू मे संस्थिता विशः। पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च
ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः। मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च
यतयः शान्तिपरमा यतात्मानो मुमुक्षवः। कामक्रोधद्वेषमुक्ता निःसंज्ञा वीतकल्मषाः
सत्वस्था निरहंकारा नित्यमध्यात्मकोविदाः। मामेव सततं विप्राश्चिन्तयन्त उपासते
अहं संवर्तको वह्निरहं संवर्तको यमः। अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले। मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः। वसनं शयनं चैव विलयं चैव विद्धि मे
मयैव सुविभक्तास्ते देवकार्यार्थसिद्धये। कामं क्रोधं च हर्षं च भयं मोहं तथैव च। ममैव विद्धि रोमाणि सर्वाण्येतानि सत्तम
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्म शोभनम्। सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु
मद्विधानेन विहिता मम देहविहारिणः। मयाऽभिभूतविज्ञाना विचेष्टन्ते न कामतः
सम्यग्वेदमधीयाना यजन्ते विविधैर्मखैः। शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः
---न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः। ---भाभिभूतैः कृपणैरनार्यैरकृतात्मभिः
तस्मान्महाफलंविद्धि पदं सुकृतकर्मणः। सुदुष्प्रापं विमूढानां मार्गं योगैर्निषेवितम्
यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम। अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः। राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः
तदाऽहंसंप्रसूयामि गृहेषु शुभकर्मणाम्। प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम्
सृष्ट्वा देवमनुष्यांस्तु गन्धर्वोरगराक्षसान्। स्थावराणि च भूतानि संहराम्यात्ममायया
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम्। आविश्य मानषं देहं मर्यादाबन्धकारणात्
श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम। श्यामो द्वापरमासाद्य कृष्णः कलियुगे तथा
त्रयो भागा ह्यधर्मस् तस्मिन्काले भवनति च। `यदा भवति मे वर्णः कृष्णो वै द्विजसत्तम्
अन्तकाले च संप्राप्ते कालो भूत्वाऽतिदारुणः। त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम्
अहं त्रिवर्त्मा विश्वात्मा सर्वलोकसुखावहः। अजितः सर्वगोऽनन्तो हृषीकेश उरुक्रमः। कालचक्रं नयाम्येको ब्रह्मन्नहमरूपकम्
शमनं सर्वभूतानां सर्वकालकृतोद्यमम्। एवं प्रणिहितः सम्यङ्मायया मुनिसत्तम। सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन
सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः
यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज। सुखोदयाय तत्सर्वं श्रेयसे च तवानघ
यच्च किंचित्त्वया लोके दृष्टं स्थावरजङ्गमम्। विहित सर्वथैवासौ ममात्मा भूतभावनः
अर्धं मम शरीरस्य सर्वलोकपितामहः। अहं नारायणो नाम शङ्खचक्रगदाधरः
यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम्। तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः