सततं धावमानश्च चिन्तयानो विशांपते। `भ्रमंस्तत्र महीपाल यदा वर्षगणान्बहून्'। आसादयामि नैवान्तं तस्य राजन्महात्मनः
ततस्तमेव शरणं गतोस्मि विधिवत्तदा। वरेण्यं वरदं देवं मनसा कर्मणैव च
ततोऽहं सहसा राजन्वायुवेगेन निःसृतः। महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम
ततस्तस्यैव शाखायां न्यग्रोधस्य विशांपते। आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत्
ते नैव बालवेषेण श्रीवत्सकृतलक्षणम्। आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम्
ततो मामब्रवीद्बालः स प्रीतः प्रहसन्निव। श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः
अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम। उषितस्त्वं परिश्रान्तो मार्कण्डेय ब्रवीहि मे
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा। मायानिर्मुक्तमात्मनमपश्यं लब्धचेतसम्
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ। सुजातौ मृदुरक्ताभिरङ्गुलीभिर्विराजितौ
प्रयत्नेन मया मूर्ध्ना गृहीत्वा ह्यभिवनदितौ। दृष्ट्वाऽपरिमितं तस् प्रभावममितौजसः
विनयेनाञ्जलिं कृत्वाप्रयत्नेनोपगम्य ह। दृष्टो मया स भूतात्मा देवः कमललोचनः
तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रवम्। ज्ञातुमिच्छामि देव त्वां मायां चैतां तवोत्तमाम्
आस्येनानुप्रविष्टोऽहं शरीरे भगवंस्तव। दृष्टवानखिलाँल्लोकान्समस्तान्जठरे हि ते
तव देव शरीरस्था देवदानवराक्षसाः। यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम्
त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते। द्रुतमन्तःशरीरे ते सततं परिवर्तिनः
निर्गतोऽहमकामस्तु इच्छया ते महाप्रभो। यतिष्ये पुण्डरीकाक्ष ज्ञातुं त्वाऽहमनिन्दितं
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते। पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि
किमर्थं च जगत्सर्वं शरीरस्थं तवानघ। कियन्तं च त्वया कालमिह स्थेयमरिंदम
एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया। त्वत्तः कमलपत्राक्षं विस्तरेण यथातथम्। महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो
इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः। सान्त्वयन्मामिदं वाक्यमुवाच वदतांवरः
कामं देवाऽपि मां विप्र न हि जानन्ति तत्त्वतः। त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विमृजाम्यहम्
पितृभक्तोसि विप्रर्षे मां चैव शरणं गतः। ततो दृष्टोस्मि ते साक्षाद्ब्रह्यचर्यं च ते महत्
आपो नारा इति प्रोक्तास्तासां नाम कृतं मया। तेन नारायणप्युक्तो मम तत्त्वयनं सदा
अहंनारायणो नाम प्रभवः शाश्वतोऽव्ययः। विधाता सर्वभूतानां संहर्ता च द्विजोत्तम्
अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः। अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा
अहं शिवश्च सोमश्च कश्यपोऽथ प्रजापतिः। अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम
अग्निरास्यं क्षिति पादौ चन्द्रादित्यौ च लोचने। द्यौर्मूर्धा मे दिशः श्रोत्रे तथाऽऽपः स्वेदसंभवाः। सकलं च नभः कायो वायुर्मनसि मे स्थितः
मया क्रतुशतैरिष्टं बहुभिस्त्वाप्तदक्षिणैः। यजन्ते वेदविदुषो मां देवसदने स्थितम्
पृथिव्यां क्षत्रियेन्द्राश् पार्तिवाः स्वर्गकाङ्क्षिणः। यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषया
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्। शेषो भूत्वाऽहमेवैतां धारयामि वसुंधराम्