नदीं ताम्रां च वेणां च पुण्यतोयां शुभावहाम्। सुवेणां कृष्णवेणां च इरामां च महानदीम्
वितस्तां च महाराज कावेरीं च महानदीम्। `तुङ्गभद्रां कृष्णवेणीं कमलां च महानदीम्'। शोणं च पुरुषव्याघ्र विशल्यां किंपुनामपि
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम। परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः
ततः समुद्रं पश्मामि यादोगणनिषेवितम्। रत्नाकरममित्रघ्न पयसोनिधिमुत्तमम्
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम्। जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभम्
पश्यामि च महीं राजन्काननैरुपशोभिताम्। `सपर्वतवनद्वीपां निम्नगाशतसंकुलाम्
यजन्ते हि ततो राजन्ब्राह्मणा बहुभिर्मखैः। क्षत्रियाश् प्रवर्तन्ते सर्ववर्णानुरञ्जनैः
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप। शुश्रूषायां च निरता द्विजानां वृषलास्तथा
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः। हिमवन्तं च पश्यामि हेमकूटं च पर्वतम्
निषधं चापि पश्यामि श्वेतं च रजतान्वितम्। पश्यामि च महीपाल पर्वतं गन्धमादनम्
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम्। पश्यामि च महाराज मेरु कनकपर्वतम्
महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम्। मलयं चापि पश्यामि पारियात्रं च पर्वतम्
एते चान्ये च बहवो यावन्तः पृथिवीधराः। तस्योदरे मया दृष्टाः सर्वे रत्नविभूषिताः
सिंहान्व्याघ्रान्वराहांश्च पश्यामि मनुजाधिप। पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते। तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा
कुक्षौ तस् नरव्याघ्र प्रविष्टः संचरन्दिशः। शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणानहम्
साध्यान्रुद्रांस्तथाऽऽदित्यान्गुह्यकान्पितरस्तथा। सर्पान्नागान्सुपर्णांश्च वसूनप्यश्विनावपि
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते। दैत्यदानवसङ्घांश्च नागांश्च मनुजाधिप
सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः। यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम्
सर्वं पश्याम्यहं राजंस्तस्य कुक्षौ महात्मनः। त्वरमाणः फलाहारः कृत्स्नं जगदिदं विभो
अन्तःशरीरे तस्याहं वर्षाणामधिकं शतम्। न च पश्यामि यस्याहं देहस्यान्तं कदाचन
सततं धावमानश्च चिन्तयानो विशांपते। `भ्रमंस्तत्र महीपाल यदा वर्षगणान्बहून्'। आसादयामि नैवान्तं तस्य राजन्महात्मनः
ततस्तमेव शरणं गतोस्मि विधिवत्तदा। वरेण्यं वरदं देवं मनसा कर्मणैव च
ततोऽहं सहसा राजन्वायुवेगेन निःसृतः। महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम
ततस्तस्यैव शाखायां न्यग्रोधस्य विशांपते। आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत्
ते नैव बालवेषेण श्रीवत्सकृतलक्षणम्। आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम्
ततो मामब्रवीद्बालः स प्रीतः प्रहसन्निव। श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः
अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम। उषितस्त्वं परिश्रान्तो मार्कण्डेय ब्रवीहि मे
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा। मायानिर्मुक्तमात्मनमपश्यं लब्धचेतसम्
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ। सुजातौ मृदुरक्ताभिरङ्गुलीभिर्विराजितौ
प्रयत्नेन मया मूर्ध्ना गृहीत्वा ह्यभिवनदितौ। दृष्ट्वाऽपरिमितं तस् प्रभावममितौजसः