तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये। भूतं भव्यं भविष्यं च जानन्नपि नराधिप
अतसीपुष्पवर्णाभः श्रीवत्सकृतभूषणः। साक्षाल्लक्ष्म्या इवावास स तदा प्रतिभाति मे
ततो मामब्रवीद्बालः स पद्मनिभलोचनः। श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम्
जानामि त्वां परिश्रान्तं तात विश्रामकाङ्क्षिणम्। मार्कण्डेय महासत्वं यावदिच्छसि भार्गव
अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम। आस्खेह विहितो वासः प्रसादस्ते कृतो मया
ततो बालेन तेनैव मुक्तस्यासीत्तदा मम। निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत
ततो बालेन तेनास्यं सहसा विवृतं कृतम्। तस्याहमवशो वक्रे दैवयोगात्प्रवेशितः
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप। सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम्
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम्। चर्मण्वतींवेत्रवतीं चन्द्रभागां सरस्वतीम्
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि। वस्वोकसारां नलिनीं नर्मदां चैव भारत
नदीं ताम्रां च वेणां च पुण्यतोयां शुभावहाम्। सुवेणां कृष्णवेणां च इरामां च महानदीम्
वितस्तां च महाराज कावेरीं च महानदीम्। `तुङ्गभद्रां कृष्णवेणीं कमलां च महानदीम्'। शोणं च पुरुषव्याघ्र विशल्यां किंपुनामपि
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम। परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः
ततः समुद्रं पश्मामि यादोगणनिषेवितम्। रत्नाकरममित्रघ्न पयसोनिधिमुत्तमम्
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम्। जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभम्
पश्यामि च महीं राजन्काननैरुपशोभिताम्। `सपर्वतवनद्वीपां निम्नगाशतसंकुलाम्
यजन्ते हि ततो राजन्ब्राह्मणा बहुभिर्मखैः। क्षत्रियाश् प्रवर्तन्ते सर्ववर्णानुरञ्जनैः
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप। शुश्रूषायां च निरता द्विजानां वृषलास्तथा
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः। हिमवन्तं च पश्यामि हेमकूटं च पर्वतम्
निषधं चापि पश्यामि श्वेतं च रजतान्वितम्। पश्यामि च महीपाल पर्वतं गन्धमादनम्
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम्। पश्यामि च महाराज मेरु कनकपर्वतम्
महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम्। मलयं चापि पश्यामि पारियात्रं च पर्वतम्
एते चान्ये च बहवो यावन्तः पृथिवीधराः। तस्योदरे मया दृष्टाः सर्वे रत्नविभूषिताः
सिंहान्व्याघ्रान्वराहांश्च पश्यामि मनुजाधिप। पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते। तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा
कुक्षौ तस् नरव्याघ्र प्रविष्टः संचरन्दिशः। शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणानहम्
साध्यान्रुद्रांस्तथाऽऽदित्यान्गुह्यकान्पितरस्तथा। सर्पान्नागान्सुपर्णांश्च वसूनप्यश्विनावपि
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते। दैत्यदानवसङ्घांश्च नागांश्च मनुजाधिप
सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः। यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम्
सर्वं पश्याम्यहं राजंस्तस्य कुक्षौ महात्मनः। त्वरमाणः फलाहारः कृत्स्नं जगदिदं विभो
अन्तःशरीरे तस्याहं वर्षाणामधिकं शतम्। न च पश्यामि यस्याहं देहस्यान्तं कदाचन