सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम्। संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः
कततस्तं मारुतं घोरं स्वयंभूर्मनुजाधिप। आदिः पद्मालयो देवः पीत्वा स्वपिति भारत
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे। नष्टे देवासुरगणए यक्षराक्षसवर्जिते
निर्मनुष्ये महीपाल निःश्वापदमहीरुहे। अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमातुरः
एकार्णवे जले घोरे विचरन्पार्थिवोत्तम। अपश्यन्सर्वभूतानि वैक्लब्यमगमं ततः
ततः सुदीर्घं गत्वाऽहं प्लवमानो धराधिप। श्रान्तः क्वचिन्न शरणं लब्धवानस्म्यतन्द्रितः
ततः कदाचित्पश्यामि तस्मिन्सलिलसंनिघौ। न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते
शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप। पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते
उपविष्टं महाराज पद्मेन्दुसदृशाननम्। फुल्लपद्मविशालाक्षं बालं पश्यामि भारत
ततो मे पृतिवीपाल विस्मयः सुमहाभूत्। कथं त्वयं शिशुः शेते लोके नाशमुपागते
तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये। भूतं भव्यं भविष्यं च जानन्नपि नराधिप
अतसीपुष्पवर्णाभः श्रीवत्सकृतभूषणः। साक्षाल्लक्ष्म्या इवावास स तदा प्रतिभाति मे
ततो मामब्रवीद्बालः स पद्मनिभलोचनः। श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम्
जानामि त्वां परिश्रान्तं तात विश्रामकाङ्क्षिणम्। मार्कण्डेय महासत्वं यावदिच्छसि भार्गव
अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम। आस्खेह विहितो वासः प्रसादस्ते कृतो मया
ततो बालेन तेनैव मुक्तस्यासीत्तदा मम। निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत
ततो बालेन तेनास्यं सहसा विवृतं कृतम्। तस्याहमवशो वक्रे दैवयोगात्प्रवेशितः
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप। सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम्
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम्। चर्मण्वतींवेत्रवतीं चन्द्रभागां सरस्वतीम्
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि। वस्वोकसारां नलिनीं नर्मदां चैव भारत
नदीं ताम्रां च वेणां च पुण्यतोयां शुभावहाम्। सुवेणां कृष्णवेणां च इरामां च महानदीम्
वितस्तां च महाराज कावेरीं च महानदीम्। `तुङ्गभद्रां कृष्णवेणीं कमलां च महानदीम्'। शोणं च पुरुषव्याघ्र विशल्यां किंपुनामपि
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम। परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः
ततः समुद्रं पश्मामि यादोगणनिषेवितम्। रत्नाकरममित्रघ्न पयसोनिधिमुत्तमम्
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम्। जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभम्
पश्यामि च महीं राजन्काननैरुपशोभिताम्। `सपर्वतवनद्वीपां निम्नगाशतसंकुलाम्
यजन्ते हि ततो राजन्ब्राह्मणा बहुभिर्मखैः। क्षत्रियाश् प्रवर्तन्ते सर्ववर्णानुरञ्जनैः
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप। शुश्रूषायां च निरता द्विजानां वृषलास्तथा
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः। हिमवन्तं च पश्यामि हेमकूटं च पर्वतम्
निषधं चापि पश्यामि श्वेतं च रजतान्वितम्। पश्यामि च महीपाल पर्वतं गन्धमादनम्