अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तथा। दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये
नगराणआं विहारेषु विधर्माणो युगक्षये। अधर्मिष्ठैरुपायैश् प्रजा व्यवहरन्त्युत
संचयेन तथाऽल्पेन भवन्त्याढ्यमदान्विताः। धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः
हर्तुं व्यवसिता राजन्पापाचारसमनविताः। नैतदस्तीति मनुजा वर्तन्ते निरपत्रपाः
पुरुषादानि सत्वानि पक्षिणोऽथ मृगास्तथा। नगराणां विहारेषु चैत्येष्वपि च शेरते
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप। दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते
भवन्ति षोडशे वर्षे नराः पलितिनस्तथा। आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते
क्षीणायुषो महाराज तरुणा वृद्धशीलिनः। तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते
विपरीतास्तदा नार्यो वञ्चयित्वाऽर्हतः पतीन्। व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च
वीरपत्न्यस्तथा नार्यः संश्रयन्ति नरान्नृप। भर्तारमपि जीवन्तमन्यान्व्यभिचरन्त्युत
तस्मिन्युगसहस्रान्ते संप्राप्ते चायुषः क्षये। अनावृष्टिर्महाराज जायते बहुवार्षिकी
ततस्तान्यल्पसाराणि सत्वानि क्षुधितानि वै। प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते
ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप। पीयते सलिलं सर्वं समुद्रेषु सरित्सु च
यच्च रकाष्ठं तृणं चापि शुष्कं चार्द्रं च भारत। सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ
ततः संवर्तको वह्निर्वायुना सह भारत। लोकमाविशते पूर्वमादित्यैरुपशोषितम्
ततः स पृथिवीं भित्त्वा प्रविश्य च रसातलम्। रदेवदानवयक्षाणां भयं जनयते महत्
निरदहन्नागलोकं च यच्च किंचित्क्षिताविह। अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात्
ततो योजनविंशानां सहस्राणि शतानि च। निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम्। ततो दहति दीप्तः स सर्वमेव जगद्विभुः
ततो गजकुलप्रख्यास्तजिन्मालाविभूषिताः। उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः। केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः
केचिद्धारिद्रसंकाशाः कारण्डवनिभास्तथा। केचित्कमलपत्राभाः केचिद्धिङ्गुलसप्रभाः
केचित्पुरवराकाराः केचिद्गजकुलोपमाः। केचिदञ्जनसंकाशाः केचिन्मकरसन्निभाः
विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः। घोररूपा महाराज घोरस्वननिनादिताः
ततो जलघराः सर्वं व्याप्नुवनति नभस्तलम्। `गर्जन्तः पृथिवीपाल पृथिवीधरसन्निभाः
तैरियं पृथिवी सर्वा सपर्वतवनाकरा। आपूर्यते महाराज सलिलौघपरिप्लुता
ततस्ते जलदा घोरा राविणः पुरुषर्षभ। पर्वतान्प्लावयन्त्याशु चोदिताः परमेष्ठिना
वर्षमाणा महत्तोयं पूरयन्तो वसुंधराम्। सुघोरमशिवं रौद्रं नाशयनति च पावकम्
ततो द्वादशवर्षाणि पयोदास्त उपप्लवे। धाराभिः पूरयन्तो वै चोद्यमाना महात्मना
ततः समुद्रः स्वां वेलामतिक्रामति भारत। पर्वताश्च विदीर्यन्ते मही चापि विदीर्यते