आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः। काम्भोजा बाह्लिकाः शूराऽऽ भीरस्तथा नरोत्तमा
न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति। क्षत्रियाश्चापि वैश्याश्च विकर्मस्था नराधिप
अल्पायुषः स्वल्पबलाः स्वल्पवीर्यपराक्रमाः। अल्पसाराल्पदेहाश्च तथा सत्याल्पभाषिणः
बहुशून्या जनपदा मृगव्यालावृता दिशः। युगान्ते समनुप्राप्ते वृथा च ब्रह्मवादिनः
भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः। युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः
न तथा घ्राणयुक्ताश्च सर्वगन्धा विशांपते। रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः
बहुप्रजा ह्रस्वदेहा शीलाचारविवर्जिताः। मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः। केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये
अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप। अल्पपुष्पफलाश्चापि पादपा बहुवायसाः
ब्रह्मवध्यानुलिप्तानां तथा मिथ्याभिशंसिनाम्। नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः
लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः। भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः
कराभारभयाद्भीता गृहस्थाः परिमोषकाः। मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपभुञ्जते
मित्या च नखरोमाणि धारयन्ति तदा द्विजाः। अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः
आश्रमेषु वृथाचार पारपा गुरुतल्पगाः। ऐहलौकिकमीहन्ते मांसशोणितवर्धनम्
पारलौकिककार्येषु प्रमत्ता भृशनास्तिकाः'। बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः। आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये
यथर्तुवर्षी भगवान्न तथा पाकशासनः। न चापि सर्वभीजानि सम्यग्रोहन्ति भारत
फलं धर्मस्य राजेन्द्र सर्वत्र परिहीयते। हिंसाभिरामश्च जनस्तथा संपद्यतेऽशुचिः। अधर्मफलमत्यर्थं तदा भवति चानघ
तदा च पृथिवीपाल यो भवेद्धर्मसंयुतः। अल्पायुः स हि मन्तव्यो न हि धर्मोस्ति कश्चन
भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः। वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत
धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः। धर्मस्य बलहानिः स्यादधर्मश्च बलायते
अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तथा। दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये
नगराणआं विहारेषु विधर्माणो युगक्षये। अधर्मिष्ठैरुपायैश् प्रजा व्यवहरन्त्युत
संचयेन तथाऽल्पेन भवन्त्याढ्यमदान्विताः। धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः
हर्तुं व्यवसिता राजन्पापाचारसमनविताः। नैतदस्तीति मनुजा वर्तन्ते निरपत्रपाः
पुरुषादानि सत्वानि पक्षिणोऽथ मृगास्तथा। नगराणां विहारेषु चैत्येष्वपि च शेरते
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप। दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते
भवन्ति षोडशे वर्षे नराः पलितिनस्तथा। आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते
क्षीणायुषो महाराज तरुणा वृद्धशीलिनः। तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते
विपरीतास्तदा नार्यो वञ्चयित्वाऽर्हतः पतीन्। व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च
वीरपत्न्यस्तथा नार्यः संश्रयन्ति नरान्नृप। भर्तारमपि जीवन्तमन्यान्व्यभिचरन्त्युत