शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्। राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च
यथा च युद्धमभवत्पृथिवीक्षयकारकम्। तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्। नचिरादेव विद्वांसो वेदे धनुषि चाभवन्
तांस्तथा सत्ववीर्यौजःसंपन्नान्पौरसंमतान्। नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः। तेषां निग्रहनिर्वासान्विविधांस्ते समारभन्
ततो दुर्योधनः क्रूरः कुलिङ्गस्य मते स्थितः। पाम्डवान्विविधोपायै राज्यहेतोरपीडयत्
ददावथ विषं पापो भीमाय धृतराष्ट्रजः। जरयामास तद्वीरः सहान्नेन वृकोदरः
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्। तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्। उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा
तेषां तु विप्रकारेषु तेषु तेषु महामतिः। मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत्
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः। पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः
यदा तु विविधोपायैः संवृतैर्विवृतैरपि। नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्
ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः। धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्
तत्र तान्वासयामास पाण्डवानमितौजसः।' सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः। ततो विवासयामास राज्यभोगबुभुक्षया
ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात्। प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम्
तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम्। ततः संप्राप्य कौन्तेया नगरं वारणावतम्
न्यवसन्त महात्मानो मात्रा सह परन्तपाः। धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे
पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः। सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः
आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम्। प्राद्रवन्भयसंविग्ना मात्रा सह पन्तपाः
ददृशुर्दारुमं रक्षो हिडिम्बं वननिर्झरे। हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात्
निशि संप्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः। प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः
एकचक्रां ततो हत्वा पाण्डवाः संशितव्रताः। वेदाध्ययनसंपन्नास्तेऽभवन्ब्रह्मचारिणः
ते तत्र नियताः कालं कंचिदूषुर्नरर्षभाः। मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने
तत्राससाद क्षुधितं पुरुषादं वृकोदरः। भीमसेनो महाबाहुर्बकं नाम महाबलम्
तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः। निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत्
ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम्। श्रुत्वा चैवाभ्यगच्छ्त गत्वा चैवालभन्त ताम्
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः। विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः
ते उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च। भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति
अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः। तस्माज्जनपदोपेतं सुविभक्तमहापथम्