प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे। त्वमेकः सृज्यमानानि भूतानीह प्रपश्यसि
चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना। वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः
त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः। आराधितो द्विजश्रेष्ठ तत्परेण समाधिना
स्वप्रमाणमथो विप्र त्वया कृतमनेकशः। घोरेणाविश्य तपसा वेधसो निर्जितास्त्वया
नारायणाङ्कप्रख्यस्त्वं सांपरायेऽतिपठ्यसे
भगवाननेकशः कृत्वा त्वया विष्णोश्च विश्वकृत्। कर्णिकोद्धरणं दिव्यं ब्रह्मणः कामरूपिणः। रत्नालंकारयोगाभ्यां दृग्भ्यां दृष्टस्त्वया पुरा
तस्मात्तवान्तको मृत्युर्जरा वा देहनाशिनी। न त्वां विशति विप्रर्षे प्रसादात्परमेष्ठिनः
यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः। नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे। नष्टे देवासुरगणे समुत्सन्नमहोरगे
शयानममितात्मानं पद्मे पद्मनिकेतनम्। त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि
एतत्प्रत्यक्षतः सर्वं पूर्वं वृत्तं द्विजोत्तम। तस्मादिच्छाम्यहं श्रोतुं सर्वांहेत्वात्मिकां कथां
अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम। न तेऽस्त्यविदितं किंचित्सर्वलोकेषु नित्यदा
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे। पुरुषाय पुराणाय शाश्वतायाव्ययाय च। अव्यक्ताय सुसूक्ष्माय निर्गुणाय गुणात्मने
य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः। एष कर्ता विकर्ता च भूतात्मा भूतकृत्प्रभुः
अचिन्त्यं महदाश्चर्यं पवित्रमिति चोच्यते। अनादिनिधनं भूतं विश्वमव्ययमक्षयम्
एष कर्ता न क्रियते कारणं चापि पौरुषे। को ह्येनं परुषं वेत्ति देवा अपि न तं पौरषे
सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम। आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्। तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः
वीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते। तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परं
तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः। तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः
सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम्। तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम्
सन्ध्यासंध्यांशयोस्तुल्यं प्रमाणमुपधारय। क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम्
एषा द्वादशसाहस्री युगाख्या परिकीर्तिता। एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम्
विश्वं हि ब्रह्मभवने सर्वतः परिवर्तते। लोकानां मनुजवन्याघ्र प्रलयं तं विदुर्बुधाः
अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ। सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः
यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा। व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते
ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः। क्षत्रधर्मेण वाऽप्यत्र वर्तयन्ति युगक्षये
निवृत्तयज्ञस्वाध्याया दण्डाजिनविवर्जिताः। ब्राह्मणा सर्वभक्षाश्च भविष्यन्ति कलौ युगे
अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः। विपरीते तदा लोके पूर्वरूपं क्षयस्य तत्
बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप। मृषानुशासिनः पापा मृषावादपरायणाः