स ततार तया नावा समुद्रं मनुजेश्वर। नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा
क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ। घूर्णते चपलेव स्री मत्ता परपुरंजय
नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे। सर्वं सलिलमेवासीत्खं द्यौश्च नरपुङ्गव
एवंभूते तदा लोके संकुले भरतर्षभ। अदृश्यन्त सप्तर्षयो मनुर्मत्स्यस्तथैव च
एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः। चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसंचये
ततो हिमवतः शृङ्गं यत्परं भरतर्षभ। तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन
अथाब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः। अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम्
सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ। नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा
तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम्। ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ
अथाब्रवीदनिमिषस्तानृषीन्सहितस्तदा। अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते। मत्स्यरूपेण यूयं च मयाऽस्मान्मोक्षिता भयात्
मनुना च प्रजाः सर्वाः सदेवासुरमानुपाः। स्रष्टव्याः सर्वलोकाश्चयच्चेङ्गं यच्चा नेङ्गति
तपसा चापि तीव्रेण प्रतिभाऽस्य भविष्यति। मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति। इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः
स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम्। प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः
तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे। सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ
इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम्। आख्यानमिदमाख्यातं सर्वपापहरं मया
य इदं शृणुयान्नित्यं मनोश्चरितमादितः। स सुखी सर्वपूर्णार्थः सर्वलोकमियान्नरः
ततः स पुनरेवाथ मार्कण्डेयं तपस्विनम्। पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः
नैके युगसहस्रान्तास्त्वया दृष्टा महामुने। न चापीह समः कश्चिदायुष्मान्दृश्यते तव
वर्जयित्वा महात्मानं ब्रह्माणं परमेष्ठिनम्। न तेऽस्ति सदृशः कश्चिदायुषा ब्रह्मसत्तम
अथाऽन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते। त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसे
प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे। त्वमेकः सृज्यमानानि भूतानीह प्रपश्यसि
चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना। वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः
त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः। आराधितो द्विजश्रेष्ठ तत्परेण समाधिना
स्वप्रमाणमथो विप्र त्वया कृतमनेकशः। घोरेणाविश्य तपसा वेधसो निर्जितास्त्वया
नारायणाङ्कप्रख्यस्त्वं सांपरायेऽतिपठ्यसे
भगवाननेकशः कृत्वा त्वया विष्णोश्च विश्वकृत्। कर्णिकोद्धरणं दिव्यं ब्रह्मणः कामरूपिणः। रत्नालंकारयोगाभ्यां दृग्भ्यां दृष्टस्त्वया पुरा
तस्मात्तवान्तको मृत्युर्जरा वा देहनाशिनी। न त्वां विशति विप्रर्षे प्रसादात्परमेष्ठिनः
यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः। नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे। नष्टे देवासुरगणे समुत्सन्नमहोरगे
शयानममितात्मानं पद्मे पद्मनिकेतनम्। त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि