उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः। अलिञ्जरे प्राक्षिपत्तं चन्द्रांशुसदृशप्रभम्
स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः। पुत्रवत्स्वीकरोत्तस्मै मनुर्भावं विशेषतः
अथ कालेन महता स मत्स्यः सुमहानभूत्। अलिञ्जरजले चैव नासौ समभवत्किल
अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत। भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय
उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मनुः। तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा
तत्रतं प्राक्षिपच्चापि मनुः परपुरंजय। अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून्
द्वियोजनायता वापी विस्तृताचापि योजनम्। तस्यां नासौ समभवन्मत्स्यो राजीवलोचन
विचेष्टितुं च कौन्तेय मत्स्यो वाप्यां विशांपते। मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत
नय मां भगवन्साधो समुद्रमहिषीं प्रियाम्। गङ्गां नांत्रापि शक्तोस्मि वस्तुं मतिमतांवर
निदेशे हि मया तुभ्यं स्थातव्यमनसूयता। वृद्धिर्हि परमा प्राप्ता त्वत्कृते हि मयाऽनघ
एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी। नदीं गङ्गां तत्रचैनं स्वयं प्राक्षिपदेव च
स तत्र ववृधे मत्स्यः कंचित्रालमरिंदम। गतः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत्
गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो। समुद्रं नय मामाशु प्रसीद भगवन्निति
उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम्। समुद्रमनयत्पार्त तत्रचैनमवासृजत्
सुमहानपि मत्स्यस्तु स मनोर्नयतस्तदा। आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै
यदा समुद्रे प्रक्षिप्तः स मत्स्यो ननुना तदा। तत एनमिदं वाक्यं स्मयमान इवाब्रवीत्
भगवन्हि कृता रक्षा त्वया सर्वा विशेषतः। प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम
अचिराद्भगवन्बौममिदं स्थावरजङ्गमम्। सर्वमेव महाभाग प्रलयं वै गमिष्यति
संप्रक्षालनकालोऽयंलोकानां समुपस्थितः। तस्मात्त्वां बोधयाम्यद्ययत्ते हितमनुत्तमम्
त्रसानां स्तावराणां च यच्चेङ्गं यच्च नेङ्गति। तस्य सर्वस् संप्राप्तः कालः परमदारुणः
नौश्च कारयितव्या ते दृढा युक्तवटारका। तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने
बीजानि चैव सर्वाणि यथोक्तानि मया पुरा। तस्यामारोहयेर्नावि सुसंगुप्तानि भागशः
नौस्थश्च मां प्रतीक्षेथास्ततो मुनिजनप्रिय। आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस
एवमेतत्त्वया कार्यमापृष्टोसि व्रजाम्यहम्। ता न शक्या महत्यो वै आपस्तर्तुं मया विना। नातिशङ्क्यमिदं चापि वचनं मे त्वया विभो
एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत। जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम्
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह। बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा। नौकया शुभयावीर महोर्मिणमरिंदम
चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते। सच तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरंजय। शृङ्गी तत्राजगागाशु तदा भरतसत्तम
तं दृष्ट्वा मनुजव्याघ्र मनुर्मत्स्यं जलार्णवे। शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम्
वटारकमयं पाशमथ मत्स्यस्य मूर्धनि। मनुर्मनुजशार्दूल तस् शृङ्गे न्यवेशयत्
संयतस्तेन पाशेन मत्स्यः परपुरंजय। वेगेन महता नावं प्राकर्षल्लवणाम्भसि