क्षेत्रज्ञभूतां परलोकभावे कर्मोदये बुद्दिमभिप्रविष्टाम्। प्रज्ञां च देवीं सुभगे विमृश्य पृच्छामि त्वां का ह्यसि चारुरूपे
अग्निहोत्रादहमभ्यागताऽस्मि विप्रर्षभाणां संशयच्छेदनाय। त्वत्संयोगादहमेतदब्रुवं भावे स्थिता तथ्यमर्थं यथावत्
न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः। रूपं च ते दिव्यमनन्तकान्ति प्रज्ञां च देवीं सुभगे बिभर्षि
श्रेष्ठानि यानि द्विपदांवरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति। तैरेव चाहं संप्रवृद्धा भवामि चाप्यायिता रूपवती च विप्र
यच्चापि पात्रमुपयुज्यते ह वानस्पत्यमायसं पार्थिवं वा। दिव्येन रूपेण प्रज्ञया च तेनैव सिद्धिरिति विद्धि विद्वन्
परं पुराणं तमहं न वेद्मि
तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम्। स्वाध्यायदानव्रतपुण्ययोगै- स्तपोधना वीतशोका विमुक्ताः
तस्याथ मध्ये वेतसः पुण्यगन्धः सहस्रशाखो विपुलो विभाति। तस्य मूलात्सरितः प्रस्रवन्ति मधूदकप्रस्रवणाः सुपुण्याः
शाखांशाखां महानद्यः संयान्ति सिकताशयाः। धानापूपा मांसशाकाः सदापायसकर्दमाः
यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः। ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने
ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह। कथयस्वति चरितं मनोर्वैवस्वतस्य च
विवस्वतः सुतो राजन्महर्षिः सुप्रतापवान्। बभूव नरशार्दूल प्रजापतिसमद्युतिः
ओजसातेजसा लक्ष्म्या तपसा च विशेषतः। अतिचक्राम पितरं मनुः स्वंच पितामहम्
ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः। एकपादस्थितस्तीव्रं चकार सुमहत्तपः
अवाकूशिरास्तथा चापि नेत्रैरनिमिषैर्दृढम्। सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा
तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम्। चीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत्
भगवन्क्षुद्रमत्स्येस्मि बलवद्भ्यो भयंमम। मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत
दुर्बलं बलवन्तो हि मत्स्या मत्स्यं विशेषतः। भक्षयन्ति सदा वृत्तिर्विहिता नः सनातनी
तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः। त्रातुमर्हसि कर्तास्मि कृतेप्रतिकृतं तव
स मत्स्यवचनं श्रुत्वा कृपयाऽभिपरिप्लुतः। मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम्
उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः। अलिञ्जरे प्राक्षिपत्तं चन्द्रांशुसदृशप्रभम्
स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः। पुत्रवत्स्वीकरोत्तस्मै मनुर्भावं विशेषतः
अथ कालेन महता स मत्स्यः सुमहानभूत्। अलिञ्जरजले चैव नासौ समभवत्किल
अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत। भगवन्साधु मेऽद्यान्यत्स्थानं संप्रतिपादय
उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मनुः। तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा
तत्रतं प्राक्षिपच्चापि मनुः परपुरंजय। अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून्
द्वियोजनायता वापी विस्तृताचापि योजनम्। तस्यां नासौ समभवन्मत्स्यो राजीवलोचन
विचेष्टितुं च कौन्तेय मत्स्यो वाप्यां विशांपते। मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत
नय मां भगवन्साधो समुद्रमहिषीं प्रियाम्। गङ्गां नांत्रापि शक्तोस्मि वस्तुं मतिमतांवर
निदेशे हि मया तुभ्यं स्थातव्यमनसूयता। वृद्धिर्हि परमा प्राप्ता त्वत्कृते हि मयाऽनघ