यदा द्रोणो विविधानस्त्रमार्गा- न्निदर्शयन्समरे चित्रयोधी। न पाण्डवाञ्श्रेष्ठतरान्निहन्ति तदा नाशंसे विजयायं संजय
यदाऽश्रौषं चास्मदीयान्महारथा- न्व्यवस्थितानर्जुनस्यान्तकाय। संशप्तकान्निहतानर्जुनेन तदा नाशंसे विजयाय संजय
यदाऽश्रौषं व्यूहमभेद्यमन्यै- र्भारद्वाजेनात्तशस्त्रेण गुप्तम्। भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय
यदाऽभिमन्युं परिवार्य बालं सर्वे हत्त्वा हृष्टरूपा बभूवुः। महारथाः पार्थमशक्नुवन्त- स्तदा नाशंसे विजयाय संजय
यदाऽश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान्। क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय
यदाऽश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन। सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय
यदाऽश्रौषं श्रान्तहये धनंजये मुक्त्वा हयान्पाययित्वोपवृत्तान्। पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन। सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय
यदाऽश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य। यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय
यदाऽश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः। धनुष्कोट्याऽऽतुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय
यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः। अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन। घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय
यदाऽश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम्। यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम्। रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं लोकमध्ये। समं युद्धे मण्डलेभ्यश्चरन्तं तदा नाशंसे विजयाय संजय
यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन्। नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय
यदाऽश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य। निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्। तस्मिन्भ्रातृणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्रोणपुत्रं च शूरं दुःशासनं कृतवर्माणमुग्रम्। युधिष्टिरं धर्मराजं जयन्तं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत। सदा सङ्ग्रामे स्प्रधते यस्तु कृष्णं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन। हतं सङ्ग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः। दुर्योधनं विरथं भग्नशक्तिं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं पाण्डवांस्तिष्ठमानान् गत्वा ह्रदे वासुदेवेन सार्धम्। अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय
यदाऽश्रौषं विविधांश्चित्रमार्गान् गदायुद्धे मण्डलशश्चरन्तम्। मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्रोणपुत्रादिभिस्तै- र्हतान्पञ्चालान्द्रौपदेयांश्च सुप्तान्। कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय
यदाऽश्रौषं भीमसेनानुयाते- नाश्वत्थाम्ना परमास्त्रं प्रयुक्तम्। क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वाऽस्त्रमस्त्रेण शान्तम्। अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः। संजीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय संजय
द्वैपायनः केशवो द्रोणपुत्रं परस्पेरणाभिशापैः शशाप। बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत संतप्ये वै पुत्रपौत्रैश्च हीनः
शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वा पितृभिर्भ्रातृभिश्च। कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः