पुरायोनिर्युधाजिच्च अभीष्टानचितो भवः। स्वर्णेता सहजिद्बभ्रुरिति राजाऽभिधीयते। सत्ययोनिः पुराविच्च सत्यधर्मप्रवर्तकः
अधर्मादृषयो भीता बलं क्षत्रे समादधन्। `तस्माद्धि ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म चाव्ययम्
आदित्यो दिवि देवेषु तमो नुदति तेजसा। तथैव नृपतिर्भूमावधर्मान्नुदते भृशम्
ततो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात्। उत्तरः सिद्ध्यते पक्षो येन राजेति भाषितम्
ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः। तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः
यस्मात्पूर्वं मनुष्येषु ज्यायांसं मामिहाब्रवीः। सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च
तस्मात्तेऽहंप्रदास्यामि विविधं वसु भूरि च। दासीसहस्रं श्यामानां सुवस्त्राणामलकृतम्
दशकोटीर्हिरण्यस्य रुक्मभारांस्तथा दश। एतद्ददामि विप्रर्षे सर्वज्ञस्त्वं मतो हि मे
तदत्रिनर्न्यायतः सर्वं प्रतिगृह्याभिसत्कृतः। प्रत्युज्जगाम तेजस्वी गृहानेव महातपाः
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान्। ततः समभिसंधाय वनमेवान्वपद्यत
अत्रैव च सरस्वत्या गीतं परपुरंजय। पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता
किंन श्रेयः पुरुषस्येह भद्रे कथं कुर्वन्न च्यवते स्वधर्मात्। आचक्ष्व मे चारुसर्वाङ्गि सर्वं त्वया शिष्टो न च्यवेयं स्वधर्मात्
कथं चाग्निं जुहुयां पूजये वा कस्मिन्काले केन धर्मो न नश्येत्। एतत्सर्वं सुभगे प्रब्रवीहि यथा लोकान्विरजाः संचरेयम्
एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूषुणा चोत्तमबुद्दियुक्तम्। तार्क्ष्यं विप्रं धर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे
यो ब्रह्म जानाति यथोपदेशं स्वाध्यायनित्यः शुचिरप्रमत्तः। स वै पुरो देवलोकस्य गन्ता सहामरैः प्राप्नुयात्प्रीतियोगम्
तत्र स्म रम्या विपुला विशोकाः सुपुष्पिताः पुष्करिण्यः सुपुण्याः। अकर्दमा मीनवत्यः सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः
तासां तीरेष्वासते पुण्यभाजो महीयमानाः पृथगप्सरोभिः। सुपुण्यगन्धाभिरलंकृताभि- र्हिरण्यवर्णाभिरतीव हृष्टाः
परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्त्वाऽनड्वाहं सूर्यलोकं व्रजन्ति। वासो दत्त्वा चान्द्रमसं तु लोकं दत्त्वा हिरण्यममरत्वमेति
धेनुं दत्त्वा सुप्रमां साधुदोहां कल्याणवत्सामपलायिनीं च। यावन्ति रोमाणि भवन्ति तस्या- स्तावद्वर्षाण्यासते देवलोके
अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम्। धुरंधरं बलवन्तं युवानं प्राप्नोति लोकान्दशधेनुदस्य
ददाति यो वै कपिलां सचैलां कांस्योपदोहां द्रविणैरुत्तरीयैः। तैस्तैर्गुणैः कामदुहाऽथ भूत्वा नरं प्रदातारमुपैति नाकैः
यावन्ति रोमाणि भवन्ति धेन्वा- स्तावत्फलं लभते गोप्रदाने। पुत्रांसच् पौत्रांश्च कुलं च सर्व- मासप्तमं तारयते परत्र
सदक्षिणां काञ्चनचारुशृङ्गीं कांस्योपदोहां द्रविणैरुत्तरीयैः। धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति
स्वकर्मभिर्दानवसंनिरुद्धे तीव्रान्धकारे नरके पतन्तम्। महार्णवे नौरिव वातयुक्ता दानं गवां तारयते परत्र
यो ब्राह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे। ददाति दानं विधिना च यश्च स लोकमाप्नोति पुरंदरस्य
यः सप्तवर्षाणि जुहोति तार्क्ष्य हव्यं त्वग्नौ नियतः साधुशीलः। सप्तावरान्सप्तपूर्वान्पुनाति पितामहानात्मना कर्मभिः स्वैः
किमग्निहोत्रस्य व्रतं पुराण- माचक्ष्व मे पृच्तश्चारुरूपे। त्वयाऽनुशिष्टोऽहमिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम्
न चाशुचिर्नाप्यनिर्णिक्तपाणि- र्नाब्रह्मविज्जुहुयान्नाविपश्चित्। बुभुत्सवः शुचिकामा हि देवा नाश्रद्दधानाद्धि हविर्जुषन्ति
नाश्रोत्रियं देवहव्ये नियुञ्ज्या- न्मोघं पुरा सिञ्चति तादृशो हि। अपूर्णमश्रोत्रियमाह तार्क्ष्य न वै तादृग्जुहुयादग्निहोत्रम्
रये वै कृशानुं जुह्वति श्रद्दधानाः सत्यव्रता हुतशिष्टाशिनश्च। गवां लोकं प्राप्यते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम्