अन्वेषमाणाः सव्रीडाः सुप्तवद्गतमानसाः। तानब्रवीत्तत्रमुनिस्तार्क्ष्यः परपुरंजयः
स्यादयं ब्राह्मणः सोऽथयुष्माभिर्यो विनाशितः। पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः
ते च दृष्ट्वैव तमृषिं विस्मयं परमं गताः। महदाश्चर्यमिति वै ते ब्रुवाणा महीपते
मृतो ह्ययमितो दृष्टः कथं जीवितमाप्तवान्। किमेतत्तपसो वीर्यं येनायं जीवितः पुनः। श्रोतुमिच्छामहे विप्र यदि श्रोतव्यमित्युत
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः। कारणं च प्रवक्ष्यामि हेतुयोगं समासतः। `मृत्युः प्रभवते येन नास्माकं नृपसत्तमाः
शुद्धाचारादनलसाः साध्योपासनतत्पराः। शुद्धान्नाः शुद्धसदना ब्रह्मचर्यव्रतान्विताः
सत्यमेवाभिजानीमो नानृते कुर्महे मनः। स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः
यद्ब्राह्मणानां कुशलं तदेषां कथयामहे। तेषां हि चरितं ब्रूमस्तस्मान्मृत्युभयं न नः
अतिथीनन्नपानेन भृत्यानत्यशनेन च। संभोज्य शेषमश्नीमस्तस्मान्मृत्युभयं न नः
क्षान्ता दान्ताः क्षमाशीलास्तीर्थदानपरायणाः। पुण्यदेशनिवासाच्च तस्मान्मृत्युभयं न नः। तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः। गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम्। स्वदेशमगमन्हृष्टा राजानो भरतर्षभ
भूय एव तु माहात्म्यं ब्राह्मणआनां निबोध मे। वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः
तमत्रिर्गन्तुमारेबे वित्तार्थमिति नः श्रुतम्। भूयोऽर्थं नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात्
स विचिन्त्य महातेजा वनमेवान्वरोचयत्। धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम्। अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम्
तं भार्या प्रत्युवाचाथ धनमेवानुरुन्धती। वैन्यं गत्वा महात्मानमर्थयस्व धनं बहुः
स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम्। तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु
भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम्। एष वै परमो धर्मो धर्मविद्भिरुदाहृतः
कथितो मे महाभागे गौतमेन महात्मना। वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः
किंत्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः। यथा मे गौतमः प्राह ततो न व्यवसाम्यहम्
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम्। मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थिकाम्
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव। गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम्
एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः। गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम्
वाक्यैर्मङ्गलसंयुक्तैः पूजयानोऽब्रवीद्वचः। राजन्धन्यस्त्वमीशश्च भुवि त्वं प्रथमो नृपः। स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित्
तमब्रवीदृषिः क्रुद्धो वचनं वै महातपाः
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता। अत्र नः प्रथमो धाता महेन्द्रो वै प्रजापतिः
अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत। अयमेव विधाता च तथैवेन्द्रः प्रजापतिः। त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह
जानामि नाहं मुह्यामि त्वंविवक्षुर्विमुह्यसे। स्तौषि त्वं दर्शनप्रेप्सू राजानं जनसंसदि
न वेत्थ परमं धर्मं न चास्त्यत्र प्रयोजनम्। बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना