कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः। अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर। अतः परं ज्ञानवतां निबोध गतिमुत्तमाम्
मनुष्यास्तप्ततपसः सर्वागमपरायणाः। स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः
सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः। शुचियोन्यन्तरगताः प्रायशः शुभलक्षणाः
जितेनद्रियत्वाद्वशिनः सत्कृत्यान्मन्दरागिणः। अल्पाबाधपरित्रासा भवन्ति निरुपद्रवाः
च्यवन्तं जायमानं च गर्भस्यं चैव सर्वशः। स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः
ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः। कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम्। `कृत्वा शुभानि कर्माणि ज्ञानेन भरतर्षभ
किंचिद्दैवाद्धठात्किंचित्किंचिदेव स्वकर्मभिः। प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्याविचारणा
इमामत्रोपमां चापि निबोध वदतांवर। मनुष्यलोके यच्छ्रेयः परंमन्ये युधिष्ठिर
इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह। इह चामुत्र चैकस् नामुत्रैकस्य नो इह
धनानि येषां विपुलानि सन्ति नित्यंरमन्ते सुविभूषिताङ्गाः। तेषामयं शत्रुवरघ्नलोको नासौ सदा ग्राम्यसुखे रतानाम्
ये योगयुक्तास्तपसि प्रसक्ताः स्वाध्यायशीला जरयन्ति देहान्। जितेन्द्रिया भूतहिते निविष्टा स्तेषामसौ नायमरिघ्नलोकः
ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वा च धनानि काले। दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः
ये नैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते। न चापिगच्छन्ति शुभान्यभाग्या- स्तेषामयं चैव परश्च नास्ति
सर्वे भवन्तस्त्वतिवीर्यसत्वा दिव्यौजसः संहननोपपन्नाः। लोकादमुष्मादवनिं प्रपन्नाः स्वधीतविद्याः सुरकार्यहेतोः
कृत्वैव कर्माणइ महान्ति शूरा- स्तपोदमाचारविहारशीलाः। देवानृषीन्प्रेतगतांसच् सर्वा- न्संतर्पयित्वा विधिना परेण
स्वर्गं परं पुण्यकृतां निवासं क्रमेण संप्राप्स्यथ कर्मभिः स्वैः। माभूद्विशङ्का तव कौरवेन्द्र दृष्ट्वाऽऽत्मनः क्लेशमिमं सुखार्थम्
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा। माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम्
एवमुक्तः स भगवान्मार्कण्डेयो महातपाः। उवाच सुमहातेजाः सर्वशास्त्रविशारदः
हेहयानां कुलकरो राजा परपुरंजयः। कुमारो रूपसंपननो मृगयां व्यचरद्बली
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते। कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके
स तेन हिंसितोऽरण्ये मन्यमानेन वै मृगम्। व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः
जगाम हेहयानां वै सकाशं प्रथितात्मनाम्। राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते
तेषां च तद्यथावृत्तं कथयामास वै तदा। `स कुमारो महीपालो हेहयानां महीभृताम्
तं चापि हिंसितं तात मुनिं मूलफलाशिनम्। श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः
कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः। जग्मुश्चारिष्टनाम्नोऽथ तार्क्ष्यस्याश्रममञ्जसा
तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम्। तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत्
ते तमूचुर्महात्मानं न वयं सक्रियां मुने। त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः
तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः। क्व चासौ ब्रूत सहिताः पश्यध्वं मे रतपोबलम्
ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम्। नापश्यंस्तमृषिं तत्र गतासुं ते समागताः