तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः। ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्। सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः
काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः। आसनं कल्पयामास यथा शक्रो बृहस्पतेः
तत्रोपविष्टं वरदं देवर्षिगणपूजितम्। पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः। पितामहाय कृष्णाय तदर्हाय न्यवेदयत्
प्रतिगृह्य तु तां पूजां पाम्डवाज्जनमेजयात्। गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा
तथा च पूजयित्वा तं प्रणयात्प्रतितामहम्। उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम्
भगवानापि तं दृष्ट्वा कुशलं प्रतिवेद्य च। सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत्
ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः। इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्। तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्। तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत्
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम्। कार्त्स्न्येनैतन्ममाचक्ष्व यथा वृत्तं द्विजोत्तम। `इच्छामि तत्त्वतः श्रोतुं भगवन्कुशलो ह्यसि
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा। शशास शिष्यमासीनं वैशंपायनमन्तिके
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा। तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा। आचचक्षे ततः सर्वमितिहासं पुरातनम्
राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः। भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा
शृणु राजन्यथा वीरा भ्रातरः पञ्च पाण्डवाः। विरोधमन्वगच्छन्त धार्तराष्ट्रैर्दुरात्मभिः
गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः। संपूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्
महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्। गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहतीव मे
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्। राज्यार्थे द्यूतसंभूतो वनवासस्तथैव च
यथा च युद्धमभवत्पृथिवीक्षयकारकम्। तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्। नचिरादेव विद्वांसो वेदे धनुषि चाभवन्
तांस्तथा सत्ववीर्यौजःसंपन्नान्पौरसंमतान्। नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः। तेषां निग्रहनिर्वासान्विविधांस्ते समारभन्
ततो दुर्योधनः क्रूरः कुलिङ्गस्य मते स्थितः। पाम्डवान्विविधोपायै राज्यहेतोरपीडयत्
ददावथ विषं पापो भीमाय धृतराष्ट्रजः। जरयामास तद्वीरः सहान्नेन वृकोदरः
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्। तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्
यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम्। उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार स शत्रुहा