नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान्। मार्कण्डेयस्य वदतस्तां कथामन्वमोदत
उवाच चैनं कालज्ञं स्मयन्निव सनारदः। ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम्
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः। क्षणं कुरुध्वंविपुलमाख्यातव्यं भविष्यति
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः। मध्यंदिने यथादित्यं प्रेक्षन्तस्ते महामुनिम्
तं विवक्षन्तमालक्ष्यकुरुराजो महामुनिम्। कथासंजननार्थाय चोदयामास पाण्डवः
भवान्दैवतदैत्यानामृषीणां च महात्मनाम्। राजर्षीणां च सर्वेषां चरितज्ञः पुरातनः
सेव्यश्चोपासितव्यश् मतो नः काङ्क्षितश्चिरम्। अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः
भ्रमत्येव हि मे बुद्धिर्दृष्ट्वाऽऽत्मानं सुखाच्च्युतम्। धार्तराष्ट्रांश्च रदुर्त्तानृद्ध्यतः प्रेक्ष्य सर्वशः
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य वा। स्वफलं तदुपाश्नापि कथं कर्ता स्विदीश्वरः
अथवा सुखदुःखेषु नृणां ब्रह्मविदांवर। इह वा कृतमन्वेति परदेहेऽथवा पुनः
देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः। कथं संयुज्यतेप्रेत्य इह वा द्विजसत्तम
ऐहलौकिकमेवैतदुताहो पारलौकिकम्। क्व वा कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव
त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतांवर। विदितं वेदितव्यं ते स्थित्यर्थं त्वं तु पृच्छसि
अत्र ते कथयिष्यामि तदिहैकमनाः शृणु। यथेहामुत्र च नर सुखदुःखमुपाश्नुते
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम्। ससर्ज धऱ्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः
अमोघफलसंकल्पाः सुव्रताः सत्यवादिनः। ब्रह्मभूता नराः पुण्याः पुराणाः कुरुसत्तम
सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम्। ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः
स्वच्चन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः। अल्पबाधा निरातङ्काः सिद्धार्था निरुपद्रवाः
द्रष्टारोदेवसङ्घानामृषीणां च महात्मनाम्। प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः। ततः कालान्तरे तस्मिन्पृथिवीतलचारिणः
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः। लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः
अशुभैः कर्मभिः पापास्तिर्यङ्गिरयगामिनः। संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः
मोघेष्टा मोघसंकल्पा मोघज्ञाना विचेतसः। `काङ्क्षिणः सर्वकामानां नास्तिका भिन्नसेतवः
सर्वाभिशङ्खिनश्चैव संवृत्ताः क्लेदायिनः। अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः
दौष्कुल्या व्याधिबहुला दुरात्मानोऽभितापिनः। भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः। नाथन्तः सर्वकामानां नास्तिका भिन्नचेतसः
जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः। प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत्। इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु
अयमादिशरीरेण देवसृष्टेन मानवः। शुभानामशुभानां च कुरुते संचयं महत्
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेबरम्। संभवत्येव युगपद्योनौ नास्त्यन्तराऽभवः
तत्रास्य स्वकृतं कर्म च्छायेवानुगतं सदा। फलत्यथ सुखार्हो वा दुःखार्होवाऽथ जायते