गदासिचर्मग्रहणेषु शूरा- नस्त्रेषु शिक्षासु रथाश्वयाने। सम्यग्विनेता विनयेदतन्द्री- स्तांश्चाभिमन्युं च सदा कुमारान्
स चापि सम्यक्प्रणिधाय शिक्षां शस्त्राणइ चैषां विधिवत्प्रदाय। तवात्मजानां च तथाऽभिमन्योः पराक्रमैस्तुष्यति रौक्मिणेयः
यथा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि। एकैकमेषामनुयान्ति यत्र रथाश्च यानानि च दन्तिनश्च
अथाब्रवीद्धर्मराजं तु कृष्णो दशार्हयोधाः कुकुरान्धकाश्च। एते निदेशं तव पालयन्त- स्तिष्ठन्तु यत्रेच्छसि तत्र राजन्
आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रणा मधूनाम्। सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः सुयोधनः पापकृतां वरिष्ठः। स सानुबन्धः ससुहद्गणश्च भौमस्य सौबाधिपतेश्च मार्गम्
कामं तथा तिष्ठ नरेन्द्र तस्मि- न्यथा कृतस्ते समयः सभायाम्। दाशार्हयोधैस्तु हतारियोधं प्रतीक्षतां नागपुरं प्रभग्नम्
व्यपेतमन्युर्व्यपनीतपाप्मा विहृत् यत्रेच्छसि तत्र कामम्। ततः समृद्धिप्रभवं विशोकः प्रपत्स्यसे नागपुरं सराष्ट्रम्
ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन। प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवमित्युवाच
असंशयं केशव पाण्डवानां भवान्गतिस्त्वच्छरणा हि पार्थाः। कालोदये तच्च ततश्च भूयः कर्ता भवान्कर्म न संशयोस्ति
यथाप्रतिज्ञं विहृतश्च कालः सर्वाः समा द्वादश निर्जनेषु। अज्ञातचर्यां विधिवत्समाप्य भवद्गताः केशव पाण्डवेयाः
एषैव बुद्धिर्जुषतां सदा त्वां सत्ये स्थिताः केशव पाण्डवेयाः। सदानधर्माः सजलाः सदाराः सबान्धवास्त्वच्छरणा हि पार्थाः
तथा वदतिवार्ष्णेये धर्मराजे च भारत। अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक्। प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः
अजरश्चामरंश्चैव रूपौदार्यगुणान्वितः। व्यदृश्यत तथा युक्तो यथा स्यात्पञ्चविंशकः
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम्। उपातिष्ठन्त ते सर्वेपाण्डवाः सहयादवाः
तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम्। ब्राह्मणानां मतेनाह पाण्डवानां च केशवः
शुश्रूपवः पाण्डवास्ते ब्राह्मणाश्च समागताः। द्रौपदी सत्यभामा च तथाऽहंपरमं वचः
पुरावृत्ताः कथाः पुण्याः सदाचारान्सनातनान्। राज्ञांस्त्रीणामृषीणां च मार्कणअडेय प्रचक्ष्व नः
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः। आजगाम विशुद्धात्मा पाण्डवानवलोककः
तमप्यथ महात्मानं सर्वे ते पुरुषर्षभाः। पाद्यार्ध्याभ्यां यथान्यायमुपतस्थुर्मनीषिणः
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान्। मार्कण्डेयस्य वदतस्तां कथामन्वमोदत
उवाच चैनं कालज्ञं स्मयन्निव सनारदः। ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम्
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः। क्षणं कुरुध्वंविपुलमाख्यातव्यं भविष्यति
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः। मध्यंदिने यथादित्यं प्रेक्षन्तस्ते महामुनिम्
तं विवक्षन्तमालक्ष्यकुरुराजो महामुनिम्। कथासंजननार्थाय चोदयामास पाण्डवः
भवान्दैवतदैत्यानामृषीणां च महात्मनाम्। राजर्षीणां च सर्वेषां चरितज्ञः पुरातनः
सेव्यश्चोपासितव्यश् मतो नः काङ्क्षितश्चिरम्। अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः
भ्रमत्येव हि मे बुद्धिर्दृष्ट्वाऽऽत्मानं सुखाच्च्युतम्। धार्तराष्ट्रांश्च रदुर्त्तानृद्ध्यतः प्रेक्ष्य सर्वशः
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य वा। स्वफलं तदुपाश्नापि कथं कर्ता स्विदीश्वरः
अथवा सुखदुःखेषु नृणां ब्रह्मविदांवर। इह वा कृतमन्वेति परदेहेऽथवा पुनः