पुण्यकृद्भिर्महासत्वैस्तापसैः सह पाण्डवाः। तत्सर्वं भरतश्रेष्ठ समूहुर्योगमुत्तमम्
तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः। सूतैः पौरोगवैः साकं काम्यकं प्रययुर्वनम्
काम्यकं प्राप्य कौरव्य युधिष्ठिरपुरोगमाः। कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान्। ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन्
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा। स एष्यति महाबाहुर्वशी शौरिरुदारधीः
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः। सदा हि दर्शनाकाङ्क्षी श्रेयोन्वेषी च वो हरिः
बहुवत्सरजीवी च मार्कण्डेयो महातपाः। स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति
तथैव ब्रुवतस्तस्य प्रत्यदृश्यत केशवः। शैब्यसुग्रीवयुक्तेन रथेन रथिनारः
मघवानिव पौलोम्या सहितः सत्यभामया। उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान्
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि। ववन्दे मुदितो धीमान्भीमं च बलिनां वरम्
पूजयामास धौम्यं च यमाभ्यामभिवादितः। परिष्वज्यमहाभागां द्रौपदीं पर्यसान्त्वयत्
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम्। पर्यष्वजत दाशार्हः पुनः पुनररिंदमः
तथैव सत्यभामाऽपि द्रौपदीं परिषस्वजे। पाण्डवानां प्रियं भार्यां कृष्णस्य महिषी प्रिया
ततस्ते पाण्डवाः सर्वेसभार्याः सपुरोहिताः। आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः
कृष्णस्तु पार्थेन समेत्य विद्वान् धनंजयेनासुरमर्दनेन। बभौ यथा भूतपतिर्महात्मा समेत्य साक्षाद्भगवान्गुहेन
ततः समस्तानि किरीटमाली वनेषु वृत्तानि गदाग्रजाय। उक्त्वा यथावत्पुनरन्वपृच्छ- त्तस्मिन्सुभद्रां च तथाऽभिमन्युम्
धौम्यं च कृष्णां च युधिष्ठिरं च यमौ च भीमं च दशार्हसिंहः। उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः
स पूजयित्वा मधुहा यथाव- त्पार्थांश्च कृष्णां च पुरोहितं च। उवाच राजानमभिप्रशंसन् युधिष्ठिरं तेन सहोपविश्य
धर्मः परः पाण्डव राज्यलाभा- त्तस्यादिमाहुस्तप एव राजन्। सत्यार्जवाभ्यां चरता स्वधर्मं जितस्त्वयाऽचं परश्च लोकः
अधीतमग्रे चरता व्रतानि सम्यग्धनुर्वेदमवाप्य कृत्स्नम्। क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतवः पुराणाः
न ग्राम्यधर्मेषु रतिस्तवास्ति कामान्न किंचित्कुरुषे नरेन्द्र। न चार्तलोभात्प्रजहासि धर्मं तस्मात्प्रभावादसि धर्मराजः
दानं च सत्यं च तपश्च राजन् क्षमा च शान्तिश्च दमो धृतिश्च। अवाप्य राष्ट्राणि वसूनि भोगा- नेषा परा पार्थ सदा रतिस्ते
हृतं च देशं कुरुजाङ्गलानां कृष्णां सभायामशां च पश्यन्। अपेतधर्मव्यवहारवृत्तं सहेत तत्पाण्डव कस्त्वदन्यः
असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयितासि सम्यक्। अद्यैव तन्निग्रहणं कुरूणां यदि प्रतिज्ञा भवतः समाप्ता
प्रोवाच कृष्णामपि याज्ञसेनीं दशार्हभर्ता सहितः सुहृद्भिः। कदिष्ट्या समग्राऽसि धनंजयेन समागतेत्येवमुवाच कृष्णः
कृष्णे धनुर्वेदरतिप्रदाना- स्तवात्मजास्ते शिशवः शुशीलाः। सद्भिः सदैवाचरितं समाधिं चरन्ति पुत्रास्तव याज्ञसेनि
राज्ये नियुक्तैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च। न यज्ञसेनस्य न मातुलानां गृहेषु बाला रतिमाप्नुवन्ति
आनर्तमेवाभिमुखाः शिवेन गत्वाधनुर्वेदरतिप्रधानाः। तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे
यथा त्वमेवार्हसि तेषु वृत्तं प्रयोक्तुमार्या च यथैव कुन्ती। तेष्वप्रमादेन तथा करोति तथैव भूयश्च तथा सुभद्रा
यथाऽनिरुद्धस्य यथाऽभिमन्यो- र्यथा सुनीथस्य यथैव भानोः। तथा विनेता च गतिश्च कृष्णे तवात्मजानामपि रौक्मिणेयः