ततस्तस्माद्विमानाग्र्यात्प्रच्युतश्च्युतलक्षणः। प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम्
अयाचं तमहं विप्रं शापस्यान्तो भवेदिति। प्रमादात्संप्रमूढस्य भगवन्क्षन्तुमर्हसि
ततः स मामुवाचेदं प्रपतन्तं कृपानवितः। युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति
अभिमानस्य वै तस्य बलस्य च नराधिप। फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि
ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम्। ब्रह्म च ब्राह्मणत्वं च येन त्वाऽहमचूचुदम्
सत्यं दमस्तपो योगमहिंसा ज्ञाननित्यता। साधकानि सतां पुंसां न जातिर्नकुलं नृप
अरिष्ट कएष ते भ्राता मुक्तो बीमो महाभुज। स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः
स चायं पुरुषव्याघ्र कालः पुण्य उपागतः। तदस्मात्कारणात्पार्थ कार्यं तन्मे महत्कृतम्
ततस्तस्मिन्मुहूर्ते तु विमानं कामगामि वै। अवपातेन महता तत्रावाप तदुत्तमम्
इत्युक्त्वाऽऽजगरं देहं मुक्त्वा स नहुषो नृपः। दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह
युधिष्ठिरोपि धर्मात्मा भ्रात्रा भीमेन संगतः। धौम्येन सहितः श्रीमानाश्रमं पुनरागमत्
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम्। कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः
तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः। आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी
ते तु सर्वेद्विजश्रेष्ठाः पाण्डवानां हितेप्सया। मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस् साहसम्
पाण्डवास्तु भयान्पुक्तं प्रेक्ष्य भीमं महाबलम्। हर्षमाहारयांचक्रुर्विजह्रुश्च मुदा युताः
निदाघान्तकरः कालः सर्वभूतसुखावहः। तत्रैव वसतां तेषां प्रावृट् समभिपद्यत
छादयन्तो महाघोषाः स्वं दिशश्च बलाहकाः। प्रववर्षुर्दिवारात्रमसिताः सततं तदा
तपात्ययनिकेताश्च शतशोऽथ सहस्रशः। अपेतार्कप्रभाजालाः सविद्युन्मण्डप्रभाः
विरूढशष्पा धरणी मत्तदंशसरीसृपा। बभूव पयसा सिक्ता शान्तधूमरजोगणा
न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते। समं वा विषमं वाऽपि नद्यो वा स्तावराणि वा
क्षुब्धतोया महावेगाः श्वसमाना इवाशुगाः। सिन्धवः शोभयांचक्रुः काननानि तपात्यये
नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः। वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम्
स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह। मत्ताः परिपतन्ति स्म दर्दुरश्चैव दर्पिताः
तदा बहुविधाकारा प्रावृण्मेघानुनादिता। अभ्यतीता शिवा तेषां चरतां मरुधन्वसु
क्रौञ्चहंससमाकीर्णा शरत्प्रमुदीताऽभवत्। रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा
विमलाकाशनक्षत्रा शरत्तेषां शिवाऽभषत्। मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम्
दृश्यन्ते शान्तरजसः क्षपाजलदशीतलाः। ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः
कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः। नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः
ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम्। पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम्
तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी। तत्रैव वसतामासीत्कार्तिकी जनमेजय