कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम्। अशरीरस्य दृश्येत प्रब्रूहि विषयांश्च मे
तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः। मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तत्रिधा
तत्र वै मानुषाल्लोकाद्दानादिभिरनादिभिः। अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत्। तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते
क्रामक्रोधसमायुक्तो हिंसालोभसमनवितः। मनुष्यत्वात्परिब्रष्टस्तिर्यग्योनौ प्रसूयते
तिर्यग्योन्याः पृथग्भावो मनुष्यार्थे विधीयते। गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते
सोयमेता गतीस्तात जन्तुश्चरति कार्यवान्। निम्ने महति चात्मानमवस्थाप्य च वै नृप
जातो जातश्च बलवान्भुङ्क्ते नाम्नाऽथ देहवान्। फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः। तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम्
किं न गृह्णासि विषयान्युगपत्त्वं महामते। एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम
तदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम्। करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविथि
ज्ञानं चैवात्र बुद्धिश्च कमश्च भरतर्षभ। तस्य भोगाधिकरणे करणानि निबोध मे
मनसा तात पर्येति क्रमशो विषयानिमान्। विषयायतनत्वेन भूतात्मा क्षेत्रविष्ठितः
तत्रचापि नरव्याघ्र मनो जन्तोर्विधीयते। तस्माद्युगपदत्रास्य ग्रहणं नोपपद्यते
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः। बुद्धिं द्रव्येषु सृजति विविधेषु परावराम्
बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः। एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम्। एतदध्यात्मविदुषां परं कार्यं विधीयते
बुद्धिरात्मानुगाऽतीव उत्पातेन विधीयते। तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत्
बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि। बुद्धेर्गुणविधानेन मनस्तद्गुणवद्भवेत्
एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम्। त्वमप्यत्राभिसंबुद्धः कथं वा मन्यसे स्वयम्
अहो बुद्धिमतांश्रेष्ठ शुभा बुद्धिरियं तव। विदितं वेदितव्यं ते कस्मान्नहुष पृच्छसि
सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम्। एवमद्भुतकर्माणमिति मे संशयो महान्
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम्। वर्तमानः सुखे सर्वो नावैतीति मतिर्मम
सोहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर। पतितः प्रतिसंबुद्धस्त्वां तु संबोधयाम्यहम्
कृतंकार्यं महाराज त्वया मम परंतप। क्षीणः शाप सुकृच्छ्रो मे त्वया संभाष्य साधुना
अहं हि दिवि दिव्येन विमानन चरन्पुरा। अभिमानेन मत्तः सन्कंचिन्नान्यमचिन्तयम्
ब्रह्मर्षिदेघगन्धर्वयक्षराक्षसपन्नगाः। वरं मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते। तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम
ब्रह्मर्षीणां सरस्रं हि उवाह शिबिकां मम। कस मामपनयो राजन्भ्रंशयामास वै श्रियः
तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो महामुनिः। अगस्त्येन ततोस्म्युक्तो ध्वंस सर्पेति वैरुषा