कृतकृत्याः सर्ववर्णा यदि वृत्तं न पश्यति। संकरस्त्वत्र नागेन्द्र बलवान्प्रसमीक्षितः
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते। तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम
श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर। भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम्
भवानेतादृशो लोके वेदवेदाङ्गपारगः। ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ।। 1
पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत। अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम
दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते। अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम्
दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च। एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम्
क्वचिद्दानप्रयोगाद्धि सत्यमेव विशिष्यते। सत्यवाक्याच्च राजेनद्र क्वचिद्दानं विशिष्यते
एवमेव महेष्वास प्रियवाक्यान्महीपते। अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते
एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम्। यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम्
कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम्। अशरीरस्य दृश्येत प्रब्रूहि विषयांश्च मे
तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः। मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तत्रिधा
तत्र वै मानुषाल्लोकाद्दानादिभिरनादिभिः। अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत्। तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते
क्रामक्रोधसमायुक्तो हिंसालोभसमनवितः। मनुष्यत्वात्परिब्रष्टस्तिर्यग्योनौ प्रसूयते
तिर्यग्योन्याः पृथग्भावो मनुष्यार्थे विधीयते। गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते
सोयमेता गतीस्तात जन्तुश्चरति कार्यवान्। निम्ने महति चात्मानमवस्थाप्य च वै नृप
जातो जातश्च बलवान्भुङ्क्ते नाम्नाऽथ देहवान्। फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः। तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम्
किं न गृह्णासि विषयान्युगपत्त्वं महामते। एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम
तदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम्। करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविथि
ज्ञानं चैवात्र बुद्धिश्च कमश्च भरतर्षभ। तस्य भोगाधिकरणे करणानि निबोध मे
मनसा तात पर्येति क्रमशो विषयानिमान्। विषयायतनत्वेन भूतात्मा क्षेत्रविष्ठितः
तत्रचापि नरव्याघ्र मनो जन्तोर्विधीयते। तस्माद्युगपदत्रास्य ग्रहणं नोपपद्यते
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः। बुद्धिं द्रव्येषु सृजति विविधेषु परावराम्
बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः। एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम्। एतदध्यात्मविदुषां परं कार्यं विधीयते
बुद्धिरात्मानुगाऽतीव उत्पातेन विधीयते। तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत्
बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि। बुद्धेर्गुणविधानेन मनस्तद्गुणवद्भवेत्
एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम्। त्वमप्यत्राभिसंबुद्धः कथं वा मन्यसे स्वयम्