मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः। गम्यतां नेह स्थातव्यं श्वो भवानपि मे भवेत्
व्रतमेतन्महाबाहो विषयं मम यो ब्रजेत्। स म भक्षो भवेत्तात त्वं चापि विषये मम
चिरेणाद्य मयाऽऽहारः प्राप्तोऽयमनुजस्तव। नाहमेनं विमोक्ष्यामि न चान्यमभिकाङ्क्षये ।।]
देवो वा यदि वा दैत्य उरगो वा भवान्यदि। सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः
किमर्थं च त्वया ग्रस्तो भीमसेनो भुजंगम। किमाहृत्यविदित्वा वा प्रीतिस्ते स्याद्भुजंगम। किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम्
नहुषो नाम राजाऽहमासं पूर्वस्तवानघ। प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप
क्रतुभिस्तपसा चैवस्वाध्यायेन दमेन च। त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तोऽहंविकर्मेण च
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा। सहस्रं हि द्विजातीनामुवाह शिविकां मम
ऐश्वर्यमदमत्तोऽहमवमत्य ततो द्विजान्। इमामगस्त्येन दशामानीत इतिमे स्मृतिः
न तु मामजहात्प्रज्ञा यावदन्वेति पाण्डवः। तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः
षष्ठे काले मयाऽऽहारः प्राप्तोऽयमनुजस्तव। नाहमेनं विमोक्ष्यामि न चान्यदपि कामये
प्रश्नानुच्चारितानद्य वायहरिष्यसि चेन्मम। तथापश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम्
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः। अपि चच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम्
वेद्यंच ब्राह्मणेनेह तद्भवान्वेत्ति केवलम्। सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः
ब्राह्मणः को भवेद्राजन्वेद्यं किंच युधिष्ठिर। ब्रवीह्यतिमतिं त्वां हि वाक्यैरनिमिनोमि ते
सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा। दृश्यन्ते यत्रनागेन्द्रस ब्राह्मण इति स्मृतः
वेद्यं सर्प परं ब्र्हम निर्दुःखमसुखं च यत्। यत्रगत्वा न शोचन्ति भवतः किं विवक्षितं
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि। आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर
वेद्यं यच्चात्र निर्दुःखमसुखं च नराधिप। ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये
शूद्रे तु यद्भवेल्लक्ष्म द्विजे तच्च न विद्यते। न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः
यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः। तत्रैतन्न वेत्सर्प तं शूद्रमिति निर्दिशेत्
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति च। ताभ्यां हीनमतोऽन्यत्र पदं नास्तीति चेदपि
एवमेतन्मतं सर्प ताभ्यां हीनं तु विद्यते। यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित्। एषा मम मतिः सर्प यथा वा मन्यते भवान्
यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः। वृथा जातिस्तदायुष्मन्कृतिर्यावन्न विद्यते
जातिरत्रमहासर्प मनुष्यत्वे महामते। संकरात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः। वाङ्मैथुनमथो जन्म मरणं च समं नृणाम्
इदमार्षं प्रमाणं च ये यजामह इत्यपि। तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः
प्राङ्गाभिवर्धनात्पुंसो जातकर्म विधीयते। `तथोपनयनं प्रोक्तं द्विजातीनां यथाक्रमम्'। तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते
वृत्त्या शूद्रसमो ह्येष यावद्वेदेन जायते। तस्मिन्नेवं मतिद्वैधे मनुः स्वायंभुवोऽब्रवीत्