स प्राचीं दिशमास्थाय महतो गजयूथपान्। ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम्
ततो मृगसहस्राणि मृगेनद्राणां शतानि च। पतितानि वने दृष्ट्वा मार्गं तस्याविशन्नृपः
धावतस्तस्य वीरस् मृगार्थं वातरंहसः। ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथिः
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे। [रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसंकुले
ईरिणे निर्जले देशे कण्टकिद्रुमसंकुले। अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे।] गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा
युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम्। दयितं भ्रातरं धीमानिदं वचनमब्रवीत्
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान्। कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः
स धर्मराजमालक्ष्य भ्राता भ्रतरमग्रजम्। कथयामास तत्सर्वं ग्रहणादिविचेष्टितम्
[अयमार्य महासत्वो भक्षार्थं मां गृहीतवान्। नहुषो नाम राजर्षिः प्राणवानिव संस्थितः
मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः। वयमाहारमन्यं ते दास्यामः क्षुन्निवारणम्
मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः। गम्यतां नेह स्थातव्यं श्वो भवानपि मे भवेत्
व्रतमेतन्महाबाहो विषयं मम यो ब्रजेत्। स म भक्षो भवेत्तात त्वं चापि विषये मम
चिरेणाद्य मयाऽऽहारः प्राप्तोऽयमनुजस्तव। नाहमेनं विमोक्ष्यामि न चान्यमभिकाङ्क्षये ।।]
देवो वा यदि वा दैत्य उरगो वा भवान्यदि। सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः
किमर्थं च त्वया ग्रस्तो भीमसेनो भुजंगम। किमाहृत्यविदित्वा वा प्रीतिस्ते स्याद्भुजंगम। किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम्
नहुषो नाम राजाऽहमासं पूर्वस्तवानघ। प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप
क्रतुभिस्तपसा चैवस्वाध्यायेन दमेन च। त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तोऽहंविकर्मेण च
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा। सहस्रं हि द्विजातीनामुवाह शिविकां मम
ऐश्वर्यमदमत्तोऽहमवमत्य ततो द्विजान्। इमामगस्त्येन दशामानीत इतिमे स्मृतिः
न तु मामजहात्प्रज्ञा यावदन्वेति पाण्डवः। तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः
षष्ठे काले मयाऽऽहारः प्राप्तोऽयमनुजस्तव। नाहमेनं विमोक्ष्यामि न चान्यदपि कामये
प्रश्नानुच्चारितानद्य वायहरिष्यसि चेन्मम। तथापश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम्
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः। अपि चच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम्
वेद्यंच ब्राह्मणेनेह तद्भवान्वेत्ति केवलम्। सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः
ब्राह्मणः को भवेद्राजन्वेद्यं किंच युधिष्ठिर। ब्रवीह्यतिमतिं त्वां हि वाक्यैरनिमिनोमि ते
सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा। दृश्यन्ते यत्रनागेन्द्रस ब्राह्मण इति स्मृतः
वेद्यं सर्प परं ब्र्हम निर्दुःखमसुखं च यत्। यत्रगत्वा न शोचन्ति भवतः किं विवक्षितं
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि। आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर
वेद्यं यच्चात्र निर्दुःखमसुखं च नराधिप। ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये
शूद्रे तु यद्भवेल्लक्ष्म द्विजे तच्च न विद्यते। न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः