युधिष्ठिरस्तु कौन्तेयो बभूवास्वस्तचेतनः। अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन्
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता। दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना। रक्तं वमन्ती ददृशे प्रत्यादित्यमभासुरा
प्रववौ चानिलो रूक्षश्चण्डः सर्करकर्षणः। अपसव्यानि सर्वाणि मृगपक्षिरुतानि च
पृष्ठतो वायसः कृष्णो याहियाहीति वाशति। मुहुर्मुहुः स्फुरति च दक्षिणोऽस्य भुजस्तथा
हृदयं चरणश्चापि वामोऽस्य परितप्यति। सव्यस्याक्ष्णओ विकारश्चाप्यनिष्टः समपद्यत
धर्मराजोपि मेधावी शङ्कमानो महद्भयम्। द्रौपदीं परिपप्रच्छ क्व भीम इति भारत
शंस तस्मै पाञ्चाली चिरयातं वृकोदरम्। स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः
द्रौपद्या रक्षणं कार्यमित्युवाच धनंजयम्। नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति
स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः। मृगयामास कौन्तेयो भीमसेनं महावने
स प्राचीं दिशमास्थाय महतो गजयूथपान्। ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम्
ततो मृगसहस्राणि मृगेनद्राणां शतानि च। पतितानि वने दृष्ट्वा मार्गं तस्याविशन्नृपः
धावतस्तस्य वीरस् मृगार्थं वातरंहसः। ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथिः
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे। [रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसंकुले
ईरिणे निर्जले देशे कण्टकिद्रुमसंकुले। अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे।] गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा
युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम्। दयितं भ्रातरं धीमानिदं वचनमब्रवीत्
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान्। कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः
स धर्मराजमालक्ष्य भ्राता भ्रतरमग्रजम्। कथयामास तत्सर्वं ग्रहणादिविचेष्टितम्
[अयमार्य महासत्वो भक्षार्थं मां गृहीतवान्। नहुषो नाम राजर्षिः प्राणवानिव संस्थितः
मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः। वयमाहारमन्यं ते दास्यामः क्षुन्निवारणम्
मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः। गम्यतां नेह स्थातव्यं श्वो भवानपि मे भवेत्
व्रतमेतन्महाबाहो विषयं मम यो ब्रजेत्। स म भक्षो भवेत्तात त्वं चापि विषये मम
चिरेणाद्य मयाऽऽहारः प्राप्तोऽयमनुजस्तव। नाहमेनं विमोक्ष्यामि न चान्यमभिकाङ्क्षये ।।]
देवो वा यदि वा दैत्य उरगो वा भवान्यदि। सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः
किमर्थं च त्वया ग्रस्तो भीमसेनो भुजंगम। किमाहृत्यविदित्वा वा प्रीतिस्ते स्याद्भुजंगम। किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम्
नहुषो नाम राजाऽहमासं पूर्वस्तवानघ। प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप
क्रतुभिस्तपसा चैवस्वाध्यायेन दमेन च। त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तोऽहंविकर्मेण च
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा। सहस्रं हि द्विजातीनामुवाह शिविकां मम
ऐश्वर्यमदमत्तोऽहमवमत्य ततो द्विजान्। इमामगस्त्येन दशामानीत इतिमे स्मृतिः
न तु मामजहात्प्रज्ञा यावदन्वेति पाण्डवः। तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः